Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रवचनमा
उत्तराध्य. बृहद्धृत्तिः ॥५१५॥
त्राख्यम्.
शद्धा तां 'संयतः' यतिः 'इयाँ' गतिं 'रिये'त्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात् , यद्वा सुब्ब्यत्ययाचतुष्कारणपरिशुद्धया ईयया 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-'तत्र' तेष्वालम्बनादिषु मध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह-'ज्ञानं' सूत्रार्थोभयात्मकागमरूपं 'दर्शन' दर्शनप्रयोजनं (शास्त्रं) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः, ततोऽयमर्थः-प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम् , आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे-कालश्च प्रस्तावादीया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्री ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इह सामान्येन पन्थाः स उत्पथेन-उन्मार्गेण वर्जितो-रहित उत्पथवर्जित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः । यतनेति वुवूपुराह-'दबतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्तयतः' सम्यक्खरूपाभिधानद्वारेण संशब्दयतः 'शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञातमेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना-यत् 'चक्षुषा' दृष्ट्या 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाजीवादिकं द्रव्यम् , अवलोक्य च संयमात्मविराधनापरिहारेण गच्छेदिति भावः, 'युगमानं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना,कालतो यतना यावत् 'रीयिजत्तिरीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतो-दत्तावधानो यद्री
॥५१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 408