SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रवचनमा उत्तराध्य. बृहद्धृत्तिः ॥५१५॥ त्राख्यम्. शद्धा तां 'संयतः' यतिः 'इयाँ' गतिं 'रिये'त्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात् , यद्वा सुब्ब्यत्ययाचतुष्कारणपरिशुद्धया ईयया 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-'तत्र' तेष्वालम्बनादिषु मध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह-'ज्ञानं' सूत्रार्थोभयात्मकागमरूपं 'दर्शन' दर्शनप्रयोजनं (शास्त्रं) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः, ततोऽयमर्थः-प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम् , आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे-कालश्च प्रस्तावादीया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्री ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इह सामान्येन पन्थाः स उत्पथेन-उन्मार्गेण वर्जितो-रहित उत्पथवर्जित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः । यतनेति वुवूपुराह-'दबतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्तयतः' सम्यक्खरूपाभिधानद्वारेण संशब्दयतः 'शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञातमेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना-यत् 'चक्षुषा' दृष्ट्या 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाजीवादिकं द्रव्यम् , अवलोक्य च संयमात्मविराधनापरिहारेण गच्छेदिति भावः, 'युगमानं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना,कालतो यतना यावत् 'रीयिजत्तिरीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतो-दत्तावधानो यद्री ॥५१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy