________________
यते, इयं भावमङ्गीकृत्य यतना । उपयुक्तत्वमेव स्पष्टयितुमाह - 'इन्द्रियार्थान्' शब्दादीन् 'विवर्ज्य' तदनध्यवसानतः परिहृत्य, खाध्यायं चैव 'चः' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः - न केवलमिन्द्रियार्थान् विवर्ज्य किन्तु खाध्यायं चापि 'पञ्चधे'ति वाचनादिभेदतः पञ्चप्रकारं, गत्युपयोगोपघातित्वात् ततश्च तस्यामेवेर्यायां | मूर्त्तिः - शरीरमर्थाद्वयाप्रियमाणा यस्यासौ तन्मूर्त्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमन सोस्तत्परतोक्ता, वचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीय रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः ॥ सम्प्रति भाषासमितिमाह
कोहे माणे य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विगहासु तदेव य ॥ ९ ॥ एयाई अट्ठ ठाणाई, परिवजित्तु संजओ । असावज्जं मियं काले, भासं भासिज्ज पन्नवं ॥ १० ॥ क्रोधे माने च मायायां लोभे च 'उपयुक्तता' क्रोधाद्युपयोगपरता तदेका यतनेतियावत्, हासे 'भय'त्ति भये मौखविकथासु तथैवोपयुक्ततेति सम्बन्धः, तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः, पार्श्ववर्त्तिनो वा प्रति प्राह-बनीत वभीतैनमित्यादि, माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभिस्तुल्य इति वक्ति, मायायां यथा परव्यंसनार्थम परिचितस्थानवर्त्ती सुतादौ भणति - नायं मम पुत्रो न चाहमस्य पितेत्यादि, लोभे | यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कञ्चन तथाविधं कुलीनम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org