________________
उत्तराध्य.
बृहदत्तिः
त्राख्यम्.
॥५१६॥
प्यकुलीनमित्युल्लपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-नाहं तदाऽस्मिन् : प्रवचनमादेशे एवाभूवमित्यादि, मौखर्ये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, 'विकथासु' ख्यादिकथासु-'अहो! कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च-“कोहे य माणे य माया य लोभे य तहेव य । हासभयमोहरीए, विकहा य तहेव य॥१॥" गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवज्य' परिहत्य संयतः २४ किमित्याह-'असावद्यां' निर्दोषां तामपि 'मिता' स्तोकां यावत्युपयुज्यते तावतीमेव' 'काले' प्रस्तावे 'भाषां' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाह
गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥
उग्गमुप्पायणं पढमे, बीए सोहिन्ज एसणं । परिभोगंमि चउक्कं, विसोहिज जयं जई ॥१२॥ ___ 'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' खीकारे, उभयत्र प्राकृतत्वादेषणेति संबध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग-आसेवनं तद्विषयैषणा परिभोगैषणा च या, 'आहारोवहिसेजाए'त्ति वचनव्यत्ययाद् 'आहा
रोपधिशय्यासु' प्रतीतासु 'एताः' उक्तरूपा एषणाः सूत्रत्वाल्लिङ्गव्यत्ययात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात्, ॥५१६॥ हा पठ्यते च-"गवेसणाए गहणेणं, परिभोगेसणाणि य। आहरमवहिं सेजं, एए तिनि विसोहिय ॥१॥"त्ति, अस्य *च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्केपार्थः। कथं विशोधयेदित्याह-उद्गमश्चोत्पादना चोद्मो
S135523ऊॐ
.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org