________________
त्पादनमिति समाहारः, तत्किमित्याह-विशोधयेदित्युत्तरेण सम्बन्धः, किमुक्तं भवति ?-आधाकर्मादिदोषपरिहारत| | उद्गमं धात्र्यादिदोषपरित्यागतश्चोत्पादनां शुद्धामादधीत 'पढमे'त्ति प्रथमायां गवेषणैषणायां, 'बीय'त्ति द्वितीयायां| ग्रहणैषणायां शोधयेच्छङ्कितादिदोषत्यागतः 'एपणां' ग्रहणकालभाविग्राह्यगतदोषान्वेषणात्मिकां, 'परिभोग' इति परिभोगेषणायां चतुष्कं पिण्डशय्यावस्त्रपात्रात्मकम् , उक्तं हि-पिंड सेजं च वत्थं च, चउत्थं पायमेव य”त्ति, विशोधयेत् , इह चतुष्कशब्देन तद्विषय उपभोग उपलक्षितः, ततस्तं विशोधयेदिति, कोऽर्थः -उद्गमादिदोषत्यागतः शुद्धमेव चतुष्कं परिभुञ्जीत, यदिवोद्गमादीनां दोपोपलक्षणत्वात् 'उग्गम'त्ति उद्गमदोषान् 'उप्पायण'ति उत्पादनादोपान् 'एसण'त्ति एषणादोषान् विशोधयेत् , 'चतुष्कं च' संयोजनाप्रमाणाङ्गारधूमकारणात्मकम् , अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात् विशोधयेत् उभयत्र शोधनमपनयनं, 'जयंति यतमानः 'यतिः' तपखी, व्याख्याद्वयेऽपि च पुनस्तस्या एव क्रियाया अभिधानमतिशयख्यापनार्थमिति सूत्रद्वयार्थः ॥ इदानीमादाननिक्षेपणसमितिमाह
ओहोवहोवग्गहियं, भंडर विहं मुणी । गिण्हतो निक्खिवंतो य, पउंजिज्ज इमं विहिं ॥१३॥ चक्खुसा पडिलेहित्ता, पमजिज जयं जई । आदिए निक्खिविजा वा, दुहओऽवि समिए सया ॥१४॥ १ पिण्डं शय्यां च वस्त्रं च पात्रमेव च चतुर्थम् ।
NERS245
dan Education International
For Personal & Private Use Only
www.jainelibrary.org