Book Title: Uttaradhyayani Part_1 Author(s): Bhadrabahuswami, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ उत्तराध्य. बृहद्वृत्तिः ॥३॥ नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पइकालसंचयपहाणनाणकमगणणओ भावे ॥१॥ व्याख्या - इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक्, तथोत्तरनिक्षेप प्रस्तावात् सूचकत्वात्सू - त्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच 'नामं' ति नामोत्तरं 'ठवणं' ति स्थापनोत्तरमित्याद्यभिलापः कार्यः । तत्र नामोत्तरमिति नामैव यस्य वा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीर भव्यशरीरे तद्व्यतिरिक्तं च तत्र तद्यतिरिक्तं त्रिधा - सचित्ताचित्तमिश्रभेदेन तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम्, इह च द्रव्यपर्यायो भयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूर्ध्वभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं यथोत्तराः कुरवः, यद्वा पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग्, दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथा- सर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञापकोत्तरं यत् प्रज्ञापकस्य वामं प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तरः समया १ कयपवयणप्पणामो वुच्छं धम्माणुओगसंगहिअं । उत्तरज्झयणाणुओंगं गुरुवएसानुसारेण ||१|| इत्येषा गाथाऽऽदौ निर्युक्तिपुस्तके दृश्यते, न च व्याख्यातेत्युपेक्षिता, अनुबन्धादिदर्शितयोपयोगित्वे (कृतप्रवचनप्रणामो वक्ष्ये धर्मानुयोगसंगृहीतम्। उत्तराध्ययनानुयोगं गुरूपदेशानुसारेण ) इति संस्करणं ज्ञेयम् । Jain Education International For Private & Personal Use Only अध्ययनम् १ ॥३॥ www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 458