SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३॥ नामं ठवणा दविए खित्त दिसा तावखित्त पन्नवए । पइकालसंचयपहाणनाणकमगणणओ भावे ॥१॥ व्याख्या - इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक्, तथोत्तरनिक्षेप प्रस्तावात् सूचकत्वात्सू - त्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच 'नामं' ति नामोत्तरं 'ठवणं' ति स्थापनोत्तरमित्याद्यभिलापः कार्यः । तत्र नामोत्तरमिति नामैव यस्य वा जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीर भव्यशरीरे तद्व्यतिरिक्तं च तत्र तद्यतिरिक्तं त्रिधा - सचित्ताचित्तमिश्रभेदेन तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम्, इह च द्रव्यपर्यायो भयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेरूर्ध्वभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं, क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं यथोत्तराः कुरवः, यद्वा पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग्, दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथा- सर्वेषामुत्तरो मन्दराद्रिः, प्रज्ञापकोत्तरं यत् प्रज्ञापकस्य वामं प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तरः समया १ कयपवयणप्पणामो वुच्छं धम्माणुओगसंगहिअं । उत्तरज्झयणाणुओंगं गुरुवएसानुसारेण ||१|| इत्येषा गाथाऽऽदौ निर्युक्तिपुस्तके दृश्यते, न च व्याख्यातेत्युपेक्षिता, अनुबन्धादिदर्शितयोपयोगित्वे (कृतप्रवचनप्रणामो वक्ष्ये धर्मानुयोगसंगृहीतम्। उत्तराध्ययनानुयोगं गुरूपदेशानुसारेण ) इति संस्करणं ज्ञेयम् । Jain Education International For Private & Personal Use Only अध्ययनम् १ ॥३॥ www.jainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy