________________
PCAUSESARI LALCASSASSAMSK
मङ्गलम् ‘इइ पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मकश्रुतस्कन्धरूपस्तस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विणओ' इत्यादिना नियुक्तिकार एव वक्ष्यति । द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र चानुगतमनुरूपं वा श्रुतस्य खेनाभिधेयेन योजन-सम्बन्धनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानव्यापारोऽनुयोगः, तदुक्तम्- "अणुजोयणमणुजोगो है। सुयस्स नियएण जमभिधेयेणं। वावारो वा जोगो जो अणुरूवोऽणुकुलो वा ॥१॥" तस्य द्वाराणि-उपक्रमादीनि अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह-प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक उद्देशकाः ?, उच्यते, नाङ्गं नाङ्गानि, श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्ययनानि, नोद्देशको नोद्देशका इति । अस्य च नामनिक्षेपे 'उत्तराध्ययनश्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च, तत्रोत्तरनिक्षेपाभिधानायाह भगवान् नियुक्तिकारः
१ अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १ ॥
Sain Education
For Privale & Personal use only
im.jainelibrary.org