________________
उत्तराध्य.
अध्ययनम्
बृहद्धृत्तिः ॥२॥
विनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति च-श्लेषयति तदेव शिष्यप्रशिष्यपरम्परायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठितिं लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्मिन्निति मङ्गलम् , आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात् , उक्तं हि-"तं मंगलमाईए मज्झे पजंतए य सत्थस्स । पढमं सत्थस्साविग्धपारगमणाय निद्दिटं ॥ १॥ तस्सेव उ थिजत्थं मज्झिमयं अंतिमं च तस्सेव । अघोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥" तच नामादिचतुर्भेद, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गलं मङ्गलाकारः, मङ्गलानि च दर्पणादीनि, यथोक्तम्-“दप्पणभद्दासण वद्धमाण वरकलसमच्छसिरिवच्छा । सोच्छिय नंदावत्ता लिहिया अट्ट मंगलगा ॥१॥” इति, द्रव्यभावमङ्गले त्यावश्यकभाष्यानुसारतोऽवबोद्धव्य । तत्र चेह भावमङ्गलेनाधिकारः, तच कृतमेव, नन्दिरूपत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच सकलानुयोगस्य, अपवादत उत्क्रमेणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा| विप्पमुक्कस्स अणगारस्स' त्ति अणगारग्रहणं, मध्यमङ्गलं, 'कंपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम् , अन्त्य-3
१ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रस्याविघ्नपारगमनाय निर्दिष्टम् ॥१॥ तस्यैव तु स्थैर्यार्थ मध्यममन्तिमं च तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥२॥ २ दर्पणं भद्रासनं वर्धमानो वरकलशो मत्स्यः श्रीवत्सः । स्वस्तिको नन्द्यावत्तों लिखितान्यष्टाष्ट मङ्गलानि ॥१॥
Jain Educati
o nal
For Privale & Personal Use Only
M
inalibrary.org