SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ विकला प्रेक्षावतां प्रवृत्तिः, तस्यास्तद्यापकत्वाद्, व्याप्यस्य च व्यापकाविनाभावित्वात् , अतः प्रेक्षावत्प्रवृत्त्यङ्गत्वात् फलयोगमङ्गलसमुदायार्थानुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनानि वाच्यानि । यच्च शब्दस्याप्रमाणत्वमभिधाय तदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकलव्यवहाराणामुच्छेदप्रसङ्गात् , उक्तं हि-"लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते । तत्र साधुत्वविज्ञानं, व्यामोहोपनिबन्धनम् ॥१॥" इति । तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा-'तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपयोयणाइं च वच्चाई ॥१॥' फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्याभिधानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रयोजनं सर्वत्र योज्यं, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावासिरिति । योगः सम्बन्धः, स च हेतुतः फलतच, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथाखं प्रणेतारः ततस्तदवबोधिततदर्थास्तच्छिष्याः ततोऽपि तद्विनेयास्ताव यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततश्चर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मगुरव इति गुरुपर्वक्रमलक्षणः। फलतस्तूपायोपेयभावरूपः अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । मनाति१ तस्य फलयोगमङ्गलसमुदायार्थास्तथैव द्वाराणि । तद् (द्वार) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यामि ॥१॥ Jain Education International For Privale & Personal use only wwwjainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy