Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 11
________________ २ । [उत्तराध्ययनसूत्रे कथंभूतस्य भिक्षोः ? संयोगात्-बाह्याऽभ्यन्तरभेदेन द्विविधात् विप्रमुक्तस्य-विशेषण रहितस्य, तत्र बाह्यसंयोगो-धन-धान्य-पुत्र-मित्र-कलत्रादि, अचित्त-सचित्तादिरूपः, अभ्यन्तरसंयोगो-मिथ्यात्व-वेदत्रिक-हास्यादिषट्क-क्रोधादिचतुष्करूपः, एवंविधद्विविधसंयोगाद्विरतस्य, पुनः कीदृशस्य भिक्षोः? अनगारस्य-न विद्यते अगारं-गृहं यस्य सोऽनगारोऽगृहः, तस्य नियतवासरहितस्य ॥१॥ ___ आणाणिद्देसकरे, गुरूणमुववायकारए । इंगियागारसंपण्णे, से विणीएत्ति वुच्चइ ॥२॥ स शिष्यो विनीत इत्युच्यते, स इति कः? यः शिष्य आज्ञायास्तीर्थंकरप्रणीतसिद्धान्तवाण्या निर्देश-उत्सर्गा-ऽपवादकथनं, तस्य कारको भवति, अथवाऽऽज्ञायागुरुवाक्यस्य निर्देशः-प्रामाण्यमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । पुनर्यः शिष्यो गुरूणां समीपे पात:- 'स्थितिस्तत्कारक उपपातकारकः, गुरूणां दृग्गोचरे तिष्ठतीत्यर्थः । पुनर्यः शिष्य इङ्गिताकारसंप्रज्ञो भवति, गुरूणामिङ्गितं-मानसिकं चेष्टितं जानाति, पुनर्गुरूणामाकारं-बाह्यं शरीरचेष्टितं च जानाति, इङ्गितं-निपुणमतिगम्यम्, प्रवृत्तिनिवृत्तिज्ञापकम्, ईषद्धूशिर:कम्पनादिकम्; आकार:-स्थूलमतिगम्यश्चलनादिसूचको दिशावलोकनादिः यदुक्तम् - "अवलोकनं दिशानां, विजृम्भणं शाटकस्य संवरणम् । आसनशिथिलीकरणं, प्रस्थितलिङ्गानि चैतानि" ॥१॥ तस्माद्यः शिष्यो गुरोरिङ्गिताकारौ सम्यक् प्रकर्षेण जानातीतीङ्गिताकारसंप्रज्ञः एतादृशः शिष्यो विनयवान् उच्यते ॥२॥ अथाविनीतस्य लक्षणमाह - आणाऽणिद्देसकरे, 'गुरूणमणुववायकारए ॥ पडिणीए असंबुद्धे, अविणीएत्ति वुच्चइ ॥ ३ ॥ स शिष्योऽविनीत इत्युच्यते, य आज्ञायास्तीर्थङ्करवाक्यस्य गुरोर्वाक्यस्य चानिर्देशकरोऽप्रमाणकर्ता आज्ञाविराधकः, पुनर्यो गुरूणामनुपपातकारको भवति-गुरूणां दृग्विषये स्थितिं न करोति, आदेशभयाद् दूरं तिष्ठतीत्यर्थः । पुनर्यः शिष्यो गुरूणां प्रत्यनीकोगुरूणां छलान्वेषी, पुनर्योऽसंबुद्धस्तत्त्वस्यावेत्ता, एतादृशलक्षणोऽविनीतो भवति । १ स्थित: L. ॥ २ गुरुणमुववा मु०॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 350