________________
२ ।
[उत्तराध्ययनसूत्रे कथंभूतस्य भिक्षोः ? संयोगात्-बाह्याऽभ्यन्तरभेदेन द्विविधात् विप्रमुक्तस्य-विशेषण रहितस्य, तत्र बाह्यसंयोगो-धन-धान्य-पुत्र-मित्र-कलत्रादि, अचित्त-सचित्तादिरूपः, अभ्यन्तरसंयोगो-मिथ्यात्व-वेदत्रिक-हास्यादिषट्क-क्रोधादिचतुष्करूपः, एवंविधद्विविधसंयोगाद्विरतस्य, पुनः कीदृशस्य भिक्षोः? अनगारस्य-न विद्यते अगारं-गृहं यस्य सोऽनगारोऽगृहः, तस्य नियतवासरहितस्य ॥१॥
___ आणाणिद्देसकरे, गुरूणमुववायकारए ।
इंगियागारसंपण्णे, से विणीएत्ति वुच्चइ ॥२॥ स शिष्यो विनीत इत्युच्यते, स इति कः? यः शिष्य आज्ञायास्तीर्थंकरप्रणीतसिद्धान्तवाण्या निर्देश-उत्सर्गा-ऽपवादकथनं, तस्य कारको भवति, अथवाऽऽज्ञायागुरुवाक्यस्य निर्देशः-प्रामाण्यमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । पुनर्यः शिष्यो गुरूणां समीपे पात:- 'स्थितिस्तत्कारक उपपातकारकः, गुरूणां दृग्गोचरे तिष्ठतीत्यर्थः । पुनर्यः शिष्य इङ्गिताकारसंप्रज्ञो भवति, गुरूणामिङ्गितं-मानसिकं चेष्टितं जानाति, पुनर्गुरूणामाकारं-बाह्यं शरीरचेष्टितं च जानाति, इङ्गितं-निपुणमतिगम्यम्, प्रवृत्तिनिवृत्तिज्ञापकम्, ईषद्धूशिर:कम्पनादिकम्; आकार:-स्थूलमतिगम्यश्चलनादिसूचको दिशावलोकनादिः यदुक्तम् -
"अवलोकनं दिशानां, विजृम्भणं शाटकस्य संवरणम् ।
आसनशिथिलीकरणं, प्रस्थितलिङ्गानि चैतानि" ॥१॥ तस्माद्यः शिष्यो गुरोरिङ्गिताकारौ सम्यक् प्रकर्षेण जानातीतीङ्गिताकारसंप्रज्ञः एतादृशः शिष्यो विनयवान् उच्यते ॥२॥ अथाविनीतस्य लक्षणमाह -
आणाऽणिद्देसकरे, 'गुरूणमणुववायकारए ॥
पडिणीए असंबुद्धे, अविणीएत्ति वुच्चइ ॥ ३ ॥ स शिष्योऽविनीत इत्युच्यते, य आज्ञायास्तीर्थङ्करवाक्यस्य गुरोर्वाक्यस्य चानिर्देशकरोऽप्रमाणकर्ता आज्ञाविराधकः, पुनर्यो गुरूणामनुपपातकारको भवति-गुरूणां दृग्विषये स्थितिं न करोति, आदेशभयाद् दूरं तिष्ठतीत्यर्थः । पुनर्यः शिष्यो गुरूणां प्रत्यनीकोगुरूणां छलान्वेषी, पुनर्योऽसंबुद्धस्तत्त्वस्यावेत्ता, एतादृशलक्षणोऽविनीतो भवति । १ स्थित: L. ॥ २ गुरुणमुववा मु०॥