________________
विनयाध्ययनम् १]
अत्र कूलवालकस्य दृष्टान्तः -
यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः, तमाचार्यः शिक्षार्थं वाचा ताडयति, स क्षलको रोषं वहति । अन्यदा आचार्यस्तेन खुल्लकेन समं सिद्धशैलं वन्दितुं गतः, तत उत्तरत आचार्यस्य वधाय तेन पृष्ठस्थितेन क्षुल्लकन शिला मुक्ता, आयान्त्याचार्येण दृष्टा, स्वपादौ प्रसारितौ, अन्यथा स आचार्यो मृतोऽभविष्यत् । आचार्येण शापोऽस्मै क्षुल्लकाय दत्तः"हे दुरात्मन् ! त्वं स्त्रीतो विनंक्ष्यसि ।" अथ स क्षुल्लक आचार्योऽयं मिथ्यावादी भवत्विति विचिन्त्य पृथग्भूतस्तापसाश्रमे गत्वा तिष्ठति । तत्रासन्ननदीकूले आतापनां कुरुते, मार्गसमीपे सार्थं विलोकयति, यदि शुद्धं प्राप्नोति तदाहारं गृह्णाति, नो चेत्तदा तपः करोति, तस्याऽऽतापनाप्रभावेण नद्यन्यत्र व्यूढा, ततो लोकैरस्य कूलवालक इति नाम कृतम् । इतश्च श्रेणिकपुत्रः कूणिको राजा स्वपत्नीपद्मावतीप्रेरितः स्वभ्रातृहल्लविहल्लपार्थे जनकश्रेणिकार्पितदिव्यकुण्डलाऽष्टादशसरिकहार-सेचनकहस्त्यादिकं वस्तु मार्गितवान् । तौ च सर्वं लात्वा मातामहचेटकमहाराजपार्श्वे वैशालीनगर्यां गतौ, कूणिकेन मातामहचेटकमहाराजपार्थात् सर्ववस्तुसहितौ तौ भ्रातरौ मागितौ, शरणागतवज्रपञ्जरबिरुदं वहता 'तेन न प्रेषितौ , ततो रुष्टः कूणिकः समाराधितशक्रचमरप्रभावेण स्वजीवितं रक्षन्नमोघबाणमपि चेटकमहाराजं सङ्ग्रामे निर्जित्य वैशालीनगरमध्ये क्षिप्तवान् । सज्जितवप्रां च तां वैशाली नगरी स कूणिको रोधयति स्म, नगरीमध्यस्थितश्रीमुनिसुव्रतस्वामि-स्तूपप्रभावात्तां नगरी ग्रहीतुं न शक्नोति, ततो बहुना कालेन देवतयैवमाकाशे भणितं -
"*समणे जइ कूलवालए, मागहिअं गणिअं रमिस्सए ॥
राया य असोगचंदए, वेसालिं नयरी गहिस्सए" ॥१॥ [] कूणिकेनेमां वाणीं श्रुत्वा स कूलवालकश्रमणो विलोक्यमानस्तत्र स्थितो ज्ञातः, राजगृहादाकारिता मागधिका गणिका, तस्याः सर्वं कथितम्, तयापि प्रतिपन्नं, तं कूलवालकश्रमणमहमत्रानेष्यामीति ।सा कपटश्राविका जाता, सार्थेन तत्रागता तं' वन्दित्वा भणति-स्थाने स्थाने चैत्यानि साधूंश्च वन्दित्वाहं भोजनं कुर्वे, यूयमत्र श्रुताः ततो वन्दनार्थमागता, अनुग्रहं कुरुत, प्रासुकमेषणीयं भक्तं गृह्णीत, इति श्रुत्वा कूलवालक-श्रमणस्तस्या उत्तारके गतः, तया च नेपालगोटकचूर्णसंयोजिता मोदका दत्ताः, तद्भक्षणानन्तरं तस्यातीसारो जातः, तया औषधप्रयोगेण निवर्तितः, प्रक्षालनो-द्वर्तनादिभिस्तया तस्य चित्तं भेदितम्, स कूलवालकश्रमणस्तस्यामासक्तोऽभूत् । तयापि स्ववशीभूतः स साधुः कूणिकसमीपमानीतः, कूणिकेनोक्तं भोः कूलवालकश्रमण ! यथेयं वैशालीनगरी गृह्यते तथा क्रियतां, तेनापि तद्वचः प्रतिपद्य नैमित्तिकवेषेण वैशालीनगर्यभ्यन्तरे गत्वा १ तेन चेटकमहाराजेन मु०॥ * श्रमणो यदि कलवालको मागधिकां गणिकां रमिष्यति ।
राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥ १ ॥ २ तं कूलवालकं मु०॥३ कूलवालेनापि मु०॥