Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥श्री शत्रुञ्जयमण्डनऋषभदेवस्वामिने नमः ॥
श्री शंखेश्वर पार्श्वनाथाय नमः पूज्यपाद आचार्यदेव श्रीमद्-विजयभद्र-प्रेमसूरीश्वरेभ्यो नमः लक्ष्मीवल्लभगणिरचितदीपिकावृत्तियुक्तम्
उत्तराध्ययनसूत्रम् अर्हन्तो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थसिद्धाः । पञ्चाचारप्रवीणाः प्रगुणगणधराः पाठकाश्चागमानाम् ॥ लोके लोकेशवन्द्याः सकलयतिवराः साधुधर्माभिलीनाः । पञ्चाप्येते सदाप्ता विदधतु कुशलं विघ्ननाशं विधाय ॥१॥ श्रीवीरं क्षीरसीन्धूदकविमलगुणं मन्मथारिप्रघातं । श्रीपार्श्व विघ्नवल्लीवनदलनविधौ विस्फुरत्कान्तिधारम् ॥ सानन्दं चेन्द्रभूत्यादृतवचनरसं दत्तक्कर्णबोधं । वन्देऽहं भूरिभक्त्या त्रिभुवनमहितं वाङ्मनःकाययोगैः ॥२॥ उत्तराध्ययनसूत्रवृत्तयः, सन्ति यद्यपि जगत्यनेकशः। मुग्धहृत्सदनबोधदीपिका, दीपिकामिव तनोम्यहं पुनः ॥३॥ प्राप्तचारुविभवो गिरां गिरः, श्रीगुरोश्च विशदप्रभावतः ।। वक्ति लक्ष्म्युपपदस्तु वल्लभः, सज्जना मयि भवन्तु सादराः ॥४॥ युग्मम् । श्रेयसे स्ताद् 'गणभृतां, चतुर्दशशती शताम् ॥ श्रीपुण्डरीकमुख्याणां, या द्विपञ्चाशदुत्तरा ॥५॥
१. विनय-अध्ययनं संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो।
विणयंपाउकरिस्सामि,आणुपुचि सुणेह मे॥१॥ श्री सुधर्मास्वामी जम्बूस्वामिनं वक्ति, जम्बूस्वामिनमुद्दिश्य अन्यानपि शिष्यान् वदति।भो शिष्याः ! अहम् आनुपूर्व्या-अनुक्रमेण, भिक्षोभिक्षया मधुकरवृत्त्याहारंगृहीत्वा शरीरधारकस्य साधोविनयं प्रादुःकरिष्यामि-प्रकटीकरिष्यामि 'मे' - मम विनयं प्रकटीकरिष्यतो यूयं मद्वाक्यं शृणुत । यतो जिनशासनस्य मूलं विनयधर्म एव, उक्तं च श्रीदशवैकालिके -
* "विणयाओ नाणं, नाणाउ दंसण" मित्यादि । १ गुणभृतां मु० ॥* विनयाज्ज्ञानं ज्ञानाद्दर्शनम् ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 350