Book Title: Tran Sanskrit Faggu kavyo Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ सकलमहाजनमानसमोहन निर्जितमानमनोभवमोहन । मोहमहारिसमूह तु जय० ॥ ३ ॥ विश्वपितामह निर्गतपातक कांतनमोजनिताऽमृतसातक । जातमहोदय देव तु जय० ॥ ४ ॥ j ( गुणमणिरोहणरोहण भूधर विनयनतामिमां (मा) नवकन्धर | बन्धुरदर्शन नाथ तु. जय० ॥ ५ ॥ काव्यम् ॥ धन्योऽहं जगतीतले जिनपते ! नाभेय ! नेतस्तरां ! प्राप्तोऽहं कृतकृत्यतां च भगवन् ! विश्वत्रयालंकृते ! ! संसारार्णवमद्य तीर्णमिव हे ! तन्मन्यमानो मुने ! नाथस्त्वं मयका यतः कलियुगे लब्धी लब्धः पुरा ||६|| छन्द : रासाडुदुः || आसाउरीरागेण गीयते ॥ विमलीकृतविमलाचलभूतल भूतलसद्गुणराजी रे । लोकालोकविभासनकेवल केवलदर्शन राजी रे वि० ||७|| भविकजनौघभवोद धितारक वारककर्म महारोरे । कुरु सुमतिं मम भगवन् ! जिनवर ! जिनवरमुख्य विचारे रे वि० ||८|| रूपविनिर्जितकमलानन्दन ! नन्दन नाभिमहीशो रे । भव्यजनावलिनिर्मलमानस - मानसहंस ! महेशो रे वि० ||९|| वृषभ ! वृषभराजाऽङ्कितविग्रह ! विग्रहहृच्छिवताते ! रे । देव ! विधेहि निजक्रमसेवां देवाऽञ्चितजिन ! भीतं रे वि० ||१०| अथ काव्यम् ॥ नानावस्तुविसर्जने निपुणताभाजा मया निर्मिता मन्दारप्रमुखास्तथा तदितरे तत्प्रार्थनं तत्पराः । नैतेष्वस्ति शिवप्रदः परमिति ज्ञात्वा विधिस्त्वै (?) व सत् तत्सिद्ध्यै विदधे विभो ! भवभृतां नाऽन्यः कथं त्वन्यथा ||११|| अढीयाबन्धः || वासववन्दितपादः नाशितसर्वविषादः । [7] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10