Book Title: Tran Laghu Rachnao Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ ११६ अनुसन्धान ४९ (१) आ. ऋषिवर्धनसूरिकृत श्रीरैवतकमण्डन नेमिजिनस्तुति समुल्लसद्भक्तिसुराः सुरासुराधिराजपूज्यं जगदंगदं गदम् । हरन्तमीहारहितं हि तं हितं, नेमि स्तुवे रैवतके तकेतके ॥१॥ बिभर्ति यस्य स्तवनेऽवनेऽवनेरीशे रसं यद्रसना स ना सना । सिद्धेर्भवन्नन्ववरोऽवरो वरः, नेमि स्तुवे रैवतके तकेतके ॥२॥ यश:पटस्य प्रभवे भवे भवेऽभवन् स्वभावप्रगुणा गुणा गुणाः । यस्यातिहर्षं सुजनं जनं जनं, नेमि स्तुवे रैवतके तकेतके ॥३|| जिगाय खेलिं तरसा रसा रसातिरेकजाग्रन्मदनन्दनन्दनम् । यो बाहुदण्डं विनयं नयं नयं, नेमि स्तुवे रैवतके तकेतके ||४|| येनाङ्गराजी भयतो यतो यतोऽवगत्य तत्त्वं दुरितारितारिता । स कस्य नेष्टः सदयो दयोदयो, नेमि स्तुवे रैवतके तकेतके ||५|| सुरा अपि प्रोन्नतया तया तया, रूपस्य यस्या मुमुहुर्मुहुर्मुहुः । यस्योग्रजाताप्यजनीजनी जनी, नेमि स्तुवे रैवतके तकेतके ॥६॥ भवेऽत्र नाभा नवमेऽवमेवमे, जहासि तत् किंवदामाद माऽदमा । यं स्मेति भोज्या सहसाहसाह सा, नेमि स्तुवे रैवतके तकतके ७॥ वनेऽत्र दीक्षा जगृहे गृहे गृहे, स्थित्वाऽथ दला कनकं न कं न कम् ? संतोष्य येनाऽममताऽमताऽमता, नेमि स्तुवे रैवतके तकेतके ||८|| धर्मस्य तत्त्वे भवतोऽवतो बतोद्यमो विधेयो जगदेऽगदे गदे : येनाङ्गिनां संयमिनामिनामिना, नेमि स्तुवे रैवतके तकेतके ॥९॥ शरीरशोभाऽतिघना घना घना, प्रतापदीप्तिस्तरुणारुणारुणा । वाणी च यस्योल्लसिता सिता सिता, नेमि स्तुवे रैवतके तकेत के ।।१०।। तर्कव्याकरणागमादिचतुरस्फूर्जत्सुधासारवाक् पूज्यश्रीयशकीर्ति सूरि? ] गुरुणा ध्यानैकतानात्मना ! सूरिश्री ऋषिवर्धनेन रचिता, त्रैलोवचिन्तामणे: श्रीनेमेर्यमकोज्ज्वला स्तुतिरियं देयात्सदा मङ्गलम् ॥११।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7