Book Title: Tattvya Nyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
૨૪૫
रात्रौ चन्द्रमसः प्रकाशपतने धर्मध्वजेनादितः, पाच सद्विधिना प्रमाय गुरुराट् प्रोद्वर्तयन्वीक्षितः । तेनोचे लघुजन्तुरक्षककरो वध्यः कथं पापकैरस्माभिः खलु निन्द्यवृत्तिनिपुणेः कारुण्यवारांनिधिः ॥५४॥ ततो गणोऽयं गुरुपादनम्रः, अस्मान्क्षमस्वेति जगाद सूरिम् । गतो गणः स स्वगृहं क्षमित्वा. तत्र प्रभाव: प्रससार सरेः
॥५५॥ श्रीसाधुरत्नगणपोऽजनि पञ्चमोऽत्र,
५०श्रीसोमसुन्दरगणिः समसाधुमध्ये । कल्याणिकाभिधसुकाव्यविधानदक्षः,
तत्पशेषभुजगाग्रमणिर्बभूव ॥५६॥ सिंहासनाशोफसरोवरार्ध-भ्रमाब्जभेरीमुरजादिनव्यैः । त्रिंशत्सुबन्धै रमणीयभागां चित्राक्षरद्वयक्षरपञ्चवर्गाम् ॥५७॥
तां त्रिदशतरङ्गिणी-नामधेयां सुपत्रिकाम् । योऽष्टोत्तरशतहस्त-दर्घा प्रेषीदगुरुं प्रति ॥५८॥
प्रापद्वाळसरस्वतीति विरुदं यो दक्षिणे राष्ट्रके, बाल्ये लोकसहस्रकं नवनवं कण्ठे चकारानिशम् । स्तोत्रं संतिकरं नृणां सुखकर मादीभत्सुन्दरं, ५१आसीत्छ्रीमुनिसुन्दराभिधगुरुस्तत्पधौरेयकः ॥५९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282