SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ૨૪૫ रात्रौ चन्द्रमसः प्रकाशपतने धर्मध्वजेनादितः, पाच सद्विधिना प्रमाय गुरुराट् प्रोद्वर्तयन्वीक्षितः । तेनोचे लघुजन्तुरक्षककरो वध्यः कथं पापकैरस्माभिः खलु निन्द्यवृत्तिनिपुणेः कारुण्यवारांनिधिः ॥५४॥ ततो गणोऽयं गुरुपादनम्रः, अस्मान्क्षमस्वेति जगाद सूरिम् । गतो गणः स स्वगृहं क्षमित्वा. तत्र प्रभाव: प्रससार सरेः ॥५५॥ श्रीसाधुरत्नगणपोऽजनि पञ्चमोऽत्र, ५०श्रीसोमसुन्दरगणिः समसाधुमध्ये । कल्याणिकाभिधसुकाव्यविधानदक्षः, तत्पशेषभुजगाग्रमणिर्बभूव ॥५६॥ सिंहासनाशोफसरोवरार्ध-भ्रमाब्जभेरीमुरजादिनव्यैः । त्रिंशत्सुबन्धै रमणीयभागां चित्राक्षरद्वयक्षरपञ्चवर्गाम् ॥५७॥ तां त्रिदशतरङ्गिणी-नामधेयां सुपत्रिकाम् । योऽष्टोत्तरशतहस्त-दर्घा प्रेषीदगुरुं प्रति ॥५८॥ प्रापद्वाळसरस्वतीति विरुदं यो दक्षिणे राष्ट्रके, बाल्ये लोकसहस्रकं नवनवं कण्ठे चकारानिशम् । स्तोत्रं संतिकरं नृणां सुखकर मादीभत्सुन्दरं, ५१आसीत्छ्रीमुनिसुन्दराभिधगुरुस्तत्पधौरेयकः ॥५९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004035
Book TitleTattvya Nyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy