Book Title: Tattvarthadhigam Sutram Part 02 Author(s): Thakurprasad Sharma Publisher: Shripalnagar Jain S M Derasar Trust View full book textPage 8
________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिविनेयरत्नानां न्यायतीर्थन्यायविशारदपदसमलङ्कृतानाम् उपाध्यायश्रीमङ्गलविजयानाम् अभिप्रायः। -- -- नमो नमः श्रीप्रभुधर्मसूरये । अयि भाग्यवन्तः सज्जनमहोदयाः ! आर्यावर्तेऽस्मिन् प्राक्काले चतुर्थारकलक्षणेऽनेके महात्मानः स्वपरदर्शने सञ्जातास्तथाऽस्मिन् पञ्चमारकेऽपि बहवः स्वपरदर्शनज्ञाः समभूवन् , दर्शनान्यपि पोढा मुख्यतया प्रचलितानि । अपि च तैः सर्वैदर्शनकारमहानुभावैः स्वकीयस्वकीयदर्शने यानि यानि तत्त्वान्यभिमतानि सन्ति तत्प्रतिपादकानि शास्त्राण्यपि स्वानुकूलयुक्तियुक्तानि निपुणबुद्धिशालिगम्यानि निरूपितानि । अधुनाऽपि विद्यन्ते तेषां समस्तानां महाशयानां प्रधानतयोद्देशस्तु मोक्षनिरूपणविषयक एव । किञ्च तैर्निरूपितं शास्त्रं पूर्णमपूर्ण वेति न चर्च्यते प्रस्तुतत्वात् , परन्तु तेषां मध्ये गीर्वाणगिरायां जैनदर्शनविषयकं श्रीउत्तराध्ययनभगवतीप्रभृतिसूत्रग्रन्थरत्नेभ्यः पूज्यपादभगवदुमास्वातिमहर्षिणा सङ्ग्रहीतं तत्त्वार्थसूत्राख्यं शास्त्रं खोपज्ञभाष्ययुक्तं यदाऽऽलोकितं तदा निर्णायीदमेव शास्त्रं सम्पूर्णतया मोक्षमार्गनिरूपणपरम् । अत्र प्रतिपादकशैल्यपि अतीव गम्भीरा मुमुक्षोमुक्तिमार्गस्याश्वाश्वासनीभूतार्थाद् विश्वासाधायिनी । अत्रत्यः क्रमोऽपि योऽपूर्वो वर्तते सोऽपि स्पष्टतया प्रदर्श्यते-- अस्य दशाध्यायात्मकस्य शास्त्रस्योत्थानभूतं सम्पूर्णतया मोक्षमार्गप्रदर्शकं महामङ्गलस्वरूपं प्रथमाध्यायस्य प्रथमं सूत्रम्-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्येव प्रथममुपन्यस्तम् । किश्च दर्शनान्तरे तु न तादृशः क्रमः, किन्तु ज्ञानमेव केवलं मोक्षसाधकं प्रज्ञप्तम् । यदि च क्रियां विनापि ज्ञानादेव केवलाद् मोक्षप्राप्तिः स्यात् तर्हि समग्रोऽष्टाङ्गयोगप्रकारो व्यर्थः स्यात् , तस्मात् पूर्णश्रद्धापूर्वकज्ञानचारित्रद्वारा एव मोक्षप्राप्तिरित्युपर्युक्तो मार्ग एव मोक्षसाधक: स्यानापरः। किश्चैतत् सूत्रमवलम्ब्यैव सकलं शास्त्रं प्रवृत्तम्, अर्थादिदमेव सूत्रं सम्पूर्णशास्त्रविरचने बीजभूतम् । अधुना विषयविभागोपर्यपि दृष्टिपातः क्रियते । तथाहि-तावत प्रथमाध्याये सम्यगदर्शनज्ञानयोर्निरूपणावसरेऽत्रात्यन्तोपकारिजीवतत्त्व-नय-निक्षेप-प्रमाणप्रभृतीनामपि निरूपणमत्यन्तगम्भीररूपेण कृतम्, अर्थात् शब्दतः सक्षेपतयाऽर्थतो विशदरूपेण निरूपणमकारि । . द्वितीयेऽध्याये जीवानां स्वतत्त्वरूपौपशमिकादिभावपञ्चकानां व्याख्यानं जीवस्वरूपप्रदर्शनपूर्वक तथेन्द्रियाणां द्रव्यमावभेदपूर्वकनिरूपणसहकृतजन्मयोनि-शरीरपञ्चकानामपि प्ररूपणं सम्यक्तया कृतम् । तृतीये नरकस्थानभूतनरकावास-नरकसङ्ख्यानिर्देश-जम्बूद्वीपस्थमेरुभरतादिक्षेत्रप्ररूपणापुरस्सरद्वीपसमुद्रपरिधिप्रभृतीनां निरूपणेन सह मनुष्यतिरश्चामपि स्पष्टरूपेण भेदनिरूपणं कृतम्। Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 396