Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 15
________________ प्रस्तावना "सकया पायया चेव भणिईओ होति दोणि वा। सरमण्डलम्मि गिज्जते पसत्था इसिभासिया ॥" ___-अनुयोगद्वारे सू० १२७, १३१तमे पत्रे . एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यधावधि । अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः । किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनामामभावा, परन्तु वर्तमानकाले समुपलब्धं साहित्यमाश्रित्य तत्त्वार्थाधिगमसञ्ज्ञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देहो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् । बालस्त्रीमन्दमूर्खानामप्युपकारिणीं प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि सस्वार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैर्वाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् । वाचकवारिधिसत्तासमये संस्कृतभाषाया। प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतदभाषाद्वारा सुप्रचारस्यावलोकन, तेषां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकवलेन तैस्तत्त्वार्थपत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते।' १छाया प्राय उपरिवत् । भन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीभार्यरक्षितसूरयोऽन्त्याचकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः । श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां (श. २, उ. ८, सू. ६७८) निर्देशः । स चायम् "बहीवे णं भंते | दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणराजिस्सति गोयमा। णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसज्जिस्सति ।" जम्बद्वीपे भदन्त । द्वीपे भारते वर्षेऽस्यामवसर्पिण्या देवानुप्रियाणां कियन्तं कालं पूर्वगतमनसंक्ष्यति । गौतम । द्वीपे भारते वर्षे ऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति ।। किश्च निन्नावतारितोऽप्युल्लेखो वरीवर्तिः "वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ । उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो ॥ वरिससहस्से पुण्णे, तित्थोग्गालिऐं वद्धमाणस्स । नासि ही पुव्वगतं, अणुपरिवाडिएँ जं जस्स ॥" [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् । उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः॥ वर्षसहने पूर्णे तीर्थोद्गालिते वर्धमानस्य । नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य ॥] ३ प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसङ्क्षिप्तसरलशुद्धशैल्या वाचकवर्यैः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवर्यसमयात् प्राक्कालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां अन्यनिर्माणे न केवलं समर्था आसन् , किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यातू । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 396