Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
प्रस्तावना
श्रीदेवगुप्तसूरिविचार:
यद्यपि द्वितीये विभागेऽस्मिन् न कोऽपि सम्बन्धः साक्षात् समस्ति श्रीदेवगुप्तसूरिप्रस्तावस्य तथापि प्रथमविभागगतसम्बन्धकारिकाप्रणेतृत्वपरिचयप्रकाशनपटु किमपि वक्तव्यं नासङ्गतिमङ्गति । संशोधनार्थ मया समासादितासु सर्वासु तत्त्वार्थाधिगमसूत्रप्रतिषु श्रीदेवगुतीया टीका श्रीसैद्धसेनीयायाः पूर्वमुल्लेखिता दरीदृश्यते । तत्र केनापि कारणेन भवितव्यमिति तर्के सति प्रतिभाति विकल्पोऽयं यदुत श्रीदेवगुप्तसूरयः श्रीसिद्धसेनसरिभ्यः पूर्वगामिनो ज्यायांसो वा भवेयुः । अथवैतैः प्रणीतायाष्टीकायाः सम्बन्धकारिकाटीकाया एवोपलब्धिः पूर्वोल्लेखने कारणं भवेत् ।
गन्धहस्तिपदपरामर्शः.' गन्धहस्तिपदमुपलभ्यते श्वेताम्बरीये दिगम्बरीये च साहित्ये । तावत् प्रथमं श्वेताम्बराणां साहित्य लक्ष्यीकृत्य किश्चिदुच्यते । शक्रस्तवेत्यपरनामधेये 'नमोत्थुणं'नाग्नि प्राचीने स्तोत्रे 'पुरिसवरगन्धहत्थीण' इति परमकारुणिकचतुस्त्रिंशदतिशयधारिधर्मदेवश्रीतीर्थङ्करस्य विशेषण विद्यते, परन्तु न चास्यात्र किमपि विशिष्टं प्रयोजनं वर्तते । वृद्धवादिश्रीदेवसूरिशिष्यरत्नश्रीसिद्धसेनदिवाकराणां गन्धहस्तिरूपेणोल्लेखोऽकारि न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिभिः स्वनिर्मिते वीरस्तुतिरूपे न्यायखण्डखाये (श्लो. १६, पृ. १६) निम्नलिखितपङ्क्तिप्रणयनेन
"अनेनैवाभिप्रायेणाह गन्धहस्ती सम्मतौ" किन्तु भ्रान्तिमूलकोऽयमुल्लेख इत्यवगम्यते, यतः श्रीयशोविजयान् विहाय न केनापि प्रन्थकारेण श्रीसिद्धसेनदिवाकराणां विषये तेषां सुनिश्चितां काञ्चन कृति तद्गतावतरणसमुद्धरणप्रसङ्गं वाऽऽश्रित्य 'गन्धहस्तीति विशेषणं प्रायुजि । अपरश्च श्रीसिद्धसेनदिवाकराणां जीवनवृत्तान्तस्य ये प्राचीना अर्वाचीनाश्च प्रबन्धाः सम्प्राप्यन्ते तत्रापि तेषां पदवीरूपेण उपनामरूपेण वा गन्धहस्तिपदं न दृष्टिपथमवतरति । तेषां दिवाकरेत्युपाधिस्तु दरीदृश्यतेऽन्यान्यस्थलेषु, यथाहि-श्रीहरिभद्रसूरिवरकृते पञ्चवस्तुनामके ग्रन्थे (गां. १०४८) सन्मतितस्य श्रीअभयदेवसूरिकृतायां व्याख्यायां च प्रथमे पृष्ठे ।
किञ्च गन्धहस्तिनामधेयाः केऽपि सूरय आसन्नित्यनुमीयते जम्बूद्वीपप्रज्ञप्तेः श्रीशान्तिचन्द्रवाचकविहितप्रमेयरत्नमञ्जूषाऽभिधवृत्तिगतेन निम्नलिखितेन पद्येन
१ एतत्सम्पादकमतेन ‘सम्मति' नाम वास्तविकम् ।
२ श्रीभद्रेश्वरविरचितकथावलीगतः श्रीसिद्धसेनप्रबन्धः, प्रभावकचरित्रगतो वृद्धवादिप्रबन्धातर्गतः श्रीसिद्धसेनप्रबन्धः, प्रबन्धचिन्तामणिगतः श्रीसिद्धसेनप्रबन्धश्च ।
३ "आयरियसिद्धसेणेण सम्मईए पट्ठिअजसेणं । दूसमणि दिवागर'कप्पत्तणओ तदक्खेणं ॥" - ४ “सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणे।"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 396