Book Title: Tattvarthadhigam Sutram Part 02
Author(s): Thakurprasad Sharma
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________
किश्चिद् विज्ञापनम् सागरसूरिपादानां सविधे । एभिः सूरिसत्तमैर्विहारावस्थायामपि यावच्छक्यं पाठस्थलच्छायादिमिः सङ्कलय्य संशोधितानि तानि पत्राणि । ___२४० पृष्ठेषु तु मुद्रितेषु एवं विधमपि साहाय्यं दत्तुमसमर्था अभूवन् सखिरा विहारादिव्यग्रचित्ताः। तथापि संशोधनकर्मणि स्वसौजन्यख्यापकेन यावता साहाय्यदानेनानुगृहीतोऽस्मि तावता तेभ्यो ददामि शतशो हार्दिकान् धन्यवादान् । अपरश्चावशिष्टस्य विभागस्य संशोधने मुख्यत्वेनोपकर्तृणां दक्षिणविहारिमुनिवरश्रीअमरविजयशिष्यश्रीचतुरविजयानां नामधेयं कीर्तयाम्यनेकशः। . अत्रेदमपि निवेदनमावश्यकं यद् १०४पृष्ठमुद्रणानन्तरं प्रकाशकेनान्यत् प्रतियमलं मामदायि । तत्र एका च-संज्ञका प्रतिः अमदावादस्थडहेलेतिनामकोपाश्रयभाण्डागारसत्का, ज-संज्ञका तु एतदपेक्षया प्राचीना कतिपयजीर्णपत्रमया 'जैनानन्दपुस्तकालय'. सत्का यत्सहायतया ग-प्रतिलिखितेति मां प्रतिभाति । एतत् प्रतियुगलमभूत किमप्युपयुक्तं सन्देहनिराकरणावसरे । छ-सञ्ज्ञप्रतिरुपाध्यायानां न्यायतीर्थन्यायविशारदेतिपदवीद्वयविराजितॄणां श्रीमङ्गलविजयानां यदुपयोगः क्वचिदेव कृतोत्र मया ।
अन्तेऽस्य २०६८० श्लोकप्रमाणकस्य ग्रन्थस्य प्रकाशनेन जैनतत्त्वजिज्ञासूनां प्राच्यपाश्चात्यविपश्चिता साहाय्यकारिणः, मदीयसूचनानुसारेण प्रो. यकोबी-विन्टर्निटस लॉयमेन्गरिनोप्रमुखविद्वद्वरेभ्योऽग्रवचनरूपां प्रस्तावनासम्बन्धिनी वा लेखसामग्री विज्ञप्तिपत्रद्वारा याचमानस्य च श्रेष्ठिप्रवरस्य श्रीयुतसाकरचन्द्रात्मजजीवनचन्द्रस्य प्रयासमिममनुमोदयन् , ग्रन्थस्य द्वितीयस्यापि विभागस्य शुद्धिपत्रकस्य विधातृणां न्यायव्याकरणतत्त्वज्ञानविषयकनानाग्रन्थप्रणेतणां उपाध्यायश्रीमङ्गलविजयानां कृतज्ञतापूर्विकामुपकृति संस्मरन् कृपापीयूषपाथोधिभ्यो विवेकविचक्षणेभ्यः स्खलनासम्बन्धिनीं च क्षमा याचमानो विरमाम्यस्माद् विज्ञापनाप्रस्तावाद् विबुधवृन्दारविन्दमकरन्देन्दिन्दरो हीरालालः ।
4 df
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 396