Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 16
________________ परि. २ सू. १] स्याद्वादरत्नाकरसहितः २६१ प्रत्यक्षपूर्वकं प्रमाणान्तरं प्रवर्तत इति प्रत्यक्षं ज्येष्ठम् । मैवम् । कस्यचित्प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वात् । तथा हि । वयस्य विलोकय भयादतितरलतारकः कुरङ्गपोतकोऽयं तरसा धरित्रीतलमाक्रामतीत्यायाप्तशब्दात् कुरङ्गपोतकगोचरं तथा स्मृत्यादेः कुतूहलाकुलितस्य प्रतिपत्र्वनदेवकुलादिपदार्थविषयं प्रत्यक्षं शब्दपूर्वक स्मृत्यादिपूर्वकं च ५ प्रवर्तमानं दृष्टमिति । अथ प्रत्यक्षपूर्वकमेव प्रमाणान्तरं प्रवर्तते । प्रत्यक्षं तु प्रमाणान्तरपूर्वकमन्यथापीति तदेव ज्येष्ठम् । नैतदपि साधिष्ठम् । अवधारणस्यासिद्धेः । अनुमानस्य तर्कपूर्वकत्वेन व्यवस्थितेः । अथ तर्कस्यापि प्रत्यक्षपूर्वकत्वात्तत्पूर्वकस्यानुमानस्यापि परम्परया प्रत्यक्षपूर्वकत्वमिति चेत् । मैवम् । अनुमाने तर्कस्य प्रत्यक्षपूर्वकत्वासम्भवात् । १० अथ विशब्दावभासित्वात् प्रत्यक्षं ज्येष्ठम् । तर्हि द्विचन्द्राद्यवभासिसंवेदनस्यापि ज्येष्ठत्वापत्तिरिति । चार्वाकचर्चाचतुरोऽथ कश्चिप्रत्यक्षमेवैकं प्रमाणमिति चार्वाकमत __ देवं ब्रवीति स्फुरिताभिमानः ।। स्योपपादनपूर्वक प्रत्यक्षमेकं घटते प्रमाणं खण्डनम् । निरूप्यमाणं न पुनः परोक्षम् ॥२६६॥ तथाहि नानुमानं तावत्प्रमाणं गौणत्वात्। पक्षधर्मत्वं हि तज्जनकस्य हेतोः स्वरूपम् । पक्षश्च धर्मधमिसमुदायात्मा । तदनिश्चये कथं तद्धर्मताया हेतौ निश्चयः । तन्निश्चये वानुमानवैफल्यम् । ततोऽवश्यं पक्षधर्मव्यवहारसिद्धये धर्मधर्मिसमुदाये रूढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः। २० तस्मादित्थं पक्षस्य गौणत्वम् । तद्गौणत्वे च हेतोरपि गौणता । तद्धर्मत्वलक्षणत्वात्तस्य । तस्माद्गौणकारणजन्यत्वेन गौणमनुमानम् । गौणत्वाच्च न प्रमाणम् । अपि चार्थव्यवसायहेतुः प्रमाणं भवतीति सकलहृदयप्रतीतम् । अनुमानाच्चार्थव्यवसायो दुःशकः। तथा हि प्रतीयमानादर्थादर्थान्तरप्रतीतिरनुमानम् । प्रतीयमानश्वार्थोऽर्थान्तरेण सम्बद्ध- २५ १ व्यवसायो-निश्चयः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 242