________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः
२६१ प्रत्यक्षपूर्वकं प्रमाणान्तरं प्रवर्तत इति प्रत्यक्षं ज्येष्ठम् । मैवम् । कस्यचित्प्रत्यक्षस्यापि प्रमाणान्तरपूर्वकत्वात् । तथा हि । वयस्य विलोकय भयादतितरलतारकः कुरङ्गपोतकोऽयं तरसा धरित्रीतलमाक्रामतीत्यायाप्तशब्दात् कुरङ्गपोतकगोचरं तथा स्मृत्यादेः कुतूहलाकुलितस्य प्रतिपत्र्वनदेवकुलादिपदार्थविषयं प्रत्यक्षं शब्दपूर्वक स्मृत्यादिपूर्वकं च ५ प्रवर्तमानं दृष्टमिति । अथ प्रत्यक्षपूर्वकमेव प्रमाणान्तरं प्रवर्तते । प्रत्यक्षं तु प्रमाणान्तरपूर्वकमन्यथापीति तदेव ज्येष्ठम् । नैतदपि साधिष्ठम् । अवधारणस्यासिद्धेः । अनुमानस्य तर्कपूर्वकत्वेन व्यवस्थितेः । अथ तर्कस्यापि प्रत्यक्षपूर्वकत्वात्तत्पूर्वकस्यानुमानस्यापि परम्परया प्रत्यक्षपूर्वकत्वमिति चेत् । मैवम् । अनुमाने तर्कस्य प्रत्यक्षपूर्वकत्वासम्भवात् । १० अथ विशब्दावभासित्वात् प्रत्यक्षं ज्येष्ठम् । तर्हि द्विचन्द्राद्यवभासिसंवेदनस्यापि ज्येष्ठत्वापत्तिरिति ।
चार्वाकचर्चाचतुरोऽथ कश्चिप्रत्यक्षमेवैकं प्रमाणमिति चार्वाकमत
__ देवं ब्रवीति स्फुरिताभिमानः ।। स्योपपादनपूर्वक
प्रत्यक्षमेकं घटते प्रमाणं खण्डनम् ।
निरूप्यमाणं न पुनः परोक्षम् ॥२६६॥ तथाहि नानुमानं तावत्प्रमाणं गौणत्वात्। पक्षधर्मत्वं हि तज्जनकस्य हेतोः स्वरूपम् । पक्षश्च धर्मधमिसमुदायात्मा । तदनिश्चये कथं तद्धर्मताया हेतौ निश्चयः । तन्निश्चये वानुमानवैफल्यम् । ततोऽवश्यं पक्षधर्मव्यवहारसिद्धये धर्मधर्मिसमुदाये रूढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः। २० तस्मादित्थं पक्षस्य गौणत्वम् । तद्गौणत्वे च हेतोरपि गौणता । तद्धर्मत्वलक्षणत्वात्तस्य । तस्माद्गौणकारणजन्यत्वेन गौणमनुमानम् । गौणत्वाच्च न प्रमाणम् । अपि चार्थव्यवसायहेतुः प्रमाणं भवतीति सकलहृदयप्रतीतम् । अनुमानाच्चार्थव्यवसायो दुःशकः। तथा हि प्रतीयमानादर्थादर्थान्तरप्रतीतिरनुमानम् । प्रतीयमानश्वार्थोऽर्थान्तरेण सम्बद्ध- २५
१ व्यवसायो-निश्चयः।
"Aho Shrut Gyanam"