________________
२६०
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ नन्वेवं प्रत्यक्षशब्दस्य व्युत्पत्ती कथमिन्द्रियानाश्रितस्य मानसस्यावं.
..ध्यादेश्च प्रत्यक्षव्यपदेशः स्यादिति चेत् । उच्यते । मानसप्रत्यक्षे प्रवृत्तिनिमि-- त्तद्वारा प्रत्यक्षव्यप- प्रवृत्तिनिमित्तस्य तत्रापि सद्भावात् । अक्षाश्रितःवं
देशोपपादनम् । हि प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गो५ शब्दस्य । प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽक्षाश्रितत्वेनोपलक्षितमर्थसा
क्षात्कारत्वं गतिक्रिययोपलक्षितं गोत्वमिव गोशब्दस्य । अन्यद्धि शब्दस्य व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् । इतरथा गच्छन्नेव गौ!रिति व्यपदिश्येत नापरो व्युत्पत्तिनिमित्ताभावात् । जात्यन्तरविशिष्टं च
तुरगादिकं गतिक्रियापरिणतं व्युत्पत्तिनिमित्तसद्भावाद्रोशब्दाभिधेयं १० स्यात् । तथाऽक्षेभ्यः परतो वर्तत इति परोक्षमिति निपातनात् सिद्धिः ।
... अक्षव्यापारनिरपेक्षं मनोव्यापारणासाक्षादर्थपरिपरोक्षशब्दस्य व्युत्पत्तिः।
"च्छेदकं यज्ज्ञानं तत्परोक्षमित्यर्थः । चशब्दौ प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षवतः । द्वयोरपि तयोः स्वपरव्यवसायि१५ ज्ञानत्वेन प्रामाण्यं प्रति विशेषाभावात् । तेन यदेकं व्याकुर्वन्ति प्रत्यक्ष सकलप्रमाणज्येष्ठमिति । तत्प्रत्यादिष्टं भवति । अथोच्यते प्रत्यक्ष ज्येष्टं प्रमाणं स्वार्थनिर्णीतावन्यानवेक्षत्वादिति ।
तर्खनुमानमपि ज्येष्ठमस्तु तत एव । न हि प्रत्यक्षं सकलप्रमाणज्येष्ठमिति मतस्य तदपि तस्यामन्यापेक्षम् । स्वोत्पत्तौ तदन्यापेक्ष
खण्डनम् । मिति चेत् । प्रत्यक्षमपि स्वोत्पत्तावन्यापेक्षमेव । तत्स्वनिमित्तमक्षादिकं तत्रापेक्षते न पुनः प्रमाणमन्यदिति चेत् । अनुमानमपि तथैव । न हि तदपि निश्चितं लिङ्गं हेतुमपेक्ष्य जायमानमन्यत्प्रमाणमपेक्षते ! यत्तु लिङ्गस्वरूपग्राहिप्रमाणं तदनुमानोत्पत्तिकारणमेव न भवति । लिङ्गपरिच्छित्तावेव चरितार्थत्वात् । अथ
१ अवधिमनःपर्यवकेवलानि मानसज्ञानानि । लक्षणानि अग्रे २१-२२-२३ सूत्रेषु द्रष्टव्यानि । २ 'परोक्षे लिट्' पा. सू. ३-२.११५ इति निपातनात् ।
"Aho Shrut Gyanam"