________________
॥ अथ द्वितीयः परिच्छेदः॥
॥ नमः श्रीगुरुपादपङ्कजेभ्यः । प्रत्यक्षेण यदेकतानमनसः साक्षात्पुरोवर्तिनं
नासावंशनिवेशनिश्चलदृशः पश्यन्ति यं योगिनः !, यं चाद्यापि परोक्षमानवशतो निश्चिन्वते मादृशा
स्तं सर्वज्ञमुपास्महे प्रतिकलं कल्याणसम्पत्तये ॥ २६५ ।। प्रतिपादितं प्रमाणस्य स्वरूपमथ तत्संख्यामाह--- तत् द्विभेदं प्रत्यक्षं च परोक्षं चेति॥१॥ यत् स्वपरव्यवसायीत्यादि लक्षणतः स्वरूपेण प्रतिपन्नं प्रमाणं तविभेदं द्विप्रकारम् । तद्विभेदं प्रत्यक्षानुमानप्रकारेणापि माबोधीत्य. भिमतं समग्रप्रमाणभेदसहपरं संख्याप्रकारं स्पष्टयन्नाह प्रत्यक्षं च परोक्षं चेति ॥ अक्षमिन्द्रियं प्रति गर्ने कार्यत्वेनाश्रित प्रत्यक्ष १० " कुगतिप्रादयः" इति तत्पुरुषः । ततश्च " द्विगुप्राप्तांपन्नालं पूर्वगांतेसमासेपु" परवल्लिङ्गताप्रतिषेधादभिधेयवल्लिङ्गतायां त्रिलिङ्गः प्रत्यक्षशब्दः सिद्धः । एवं च प्रत्यक्षं ज्ञानं प्रत्यक्षो बोधः प्रत्यक्षा वुद्धिरित्यादयो व्यपदेशाः प्रवर्त्तन्ते । अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षमिति त्वव्ययीभावे "अव्ययीभावश्च" इत्यनेन सदा नपुंसकत्वं स्यात् । १५
१ ' गुरुपादुकाभ्यः ' इति भ. प. पुस्तकयोः पाठः । २ ' अष्टादश निमेषास्तु काठा त्रिंशतु ताः कलाः' इत्यमरः१-४-19, कला स्यात्कालशिल्पयोः' इत्यनेकार्थः २.४६५. ३ पाणिनिस्. २-२.१८. ४. 'अक्षि प्रति प्रत्यक्षं इति अव्ययीभावः' इति पाणिनिः ५-४-१०७. ५ 'द्विगुप्रासापनालं पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' इति कात्यायनवार्तिकम् २-४-२६. ६ पा. स. २। ४ । १८.
"Aho Shrut Gyanam"