________________
२६२
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. १ स्तस्य गमको भवेदसम्बद्धो वा ! न तावदसंबद्धः । अतिप्रसक्तेः । अथ सम्बद्धः । ननु कुतस्तस्य तेन सम्बन्धसिद्धिः प्रत्यक्षादनुमानाद्वा । न तावत्प्रत्यक्षात् । अस्य प्रतिनियतदेशकालाकारगोचरचारितया सार्वत्रिकतत्सम्बन्धग्रहणशक्तेरभावात् । नाप्यनुमानात् । अनवस्था५ प्रसक्तेः । तदपि संबन्धग्रहणे संति यतः प्रवर्तते सम्बन्धग्रहश्च
तत्राप्यनुमानान्तरादिति । किं चावस्थादेशकालभेदाद्भिन्नशक्तित्वेन भिन्नार्थक्रियाकारिणां भावानां सामस्त्येन स्वभावप्रतिबन्धः केनापि न निश्चेतुं शक्यः । शतशोऽप्यामलक्यादिफलानां कषायरसे स्वाद्यमाने
क्षीरादेरवसेकेन माधुर्योपलम्भात् । तदुक्तम् । “अवस्थादेशकालानां १० भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रतीतिरतिदुर्लभा ॥१॥"
इति । न च साध्ये सत्येव साधनस्योपलम्भादसति चानुपलम्भादेव साध्यसाधनसंबन्धसिद्धिरिति वाच्यम् । साधनानुपलम्भस्य साधनसद्भावे साधनाभावे च सम्भवात् । यत्र ह्यनग्नौ धूमो न दृश्यते तत्र प्रमातुः
शक्त्यभावः करणस्य सामर्थ्य विरहो धूमस्याभावो वानुपलम्भे कारण१५ मिति । अपि चानुमानस्य धर्मी धर्मस्तत्समुदायो वा साध्यः स्यात् ।
तत्राद्यपक्षोऽनुपपन्नः । धमिणः प्रसिद्धत्वेन साधनवैफल्यसंसक्तेः । हेतोरनन्वयत्वानुषङ्गाच । न खलु यत्र यत्र धूमस्तत्र तत्र पर्वतनितम्ब इत्यन्वयः सम्भवति । द्वितीयपक्षेऽपि धर्मः सामान्धरूपो विशेषरूपो वा
साध्यः स्यात् । तत्र सामान्यरूपे सिद्धसाधनम् । न च तन्मात्रप्रतीती २० किञ्चित्फलमुपलभामहे । न हि वह्नित्वं दाहपाकादावुपयुज्यमानं
प्रतीतम् । किं च सामान्यात्प्रतीतात्प्रवर्त्तमानः प्रतिपत्ता कथं निवतदिगभिमुखमेव प्रवर्त्तते । न हि सामान्य नियतदिकम् । सकलव्याक्तिव्यापित्वाभावप्रसक्तेः । अथ सामान्यस्य व्यक्तिं विनानुपपत्तेः प्रतीते तस्मिन्नन्यथानुपपत्त्या व्यक्तिप्रतीतेनियमेन प्रवृत्तिरित्युच्यते । ननु सामा
1'स नियतः ' इति प. पुस्तके पाठः । २ या. प. का. १०.
"Aho Shrut Gyanam"