________________
परि. २ सू. १ ]
स्याद्वादरत्नाकर सहितः
न्यमभिमतया व्यक्तत्या विना नोपपद्येत व्यक्तिमात्रेण वा । न तावदभिमतया व्यक्त्यन्तरेऽप्यस्य सम्भवात् । द्वितीयप तु व्यक्तिमात्रप्रतीतावप्यभिमतव्यक्तिप्रतीत्यर्थं पुनर्यत्नान्तरमास्थेयमिति । विशेषरूपस्य च धर्मस्य साध्यत्वे नान्वयहेतुर्भवेत् । न ह्यत्रत्येदानीतनेन खादिरादिस्वभावेन चह्निना वह्निमान्पवर्तनितम्ब इत्यत्र विशेषे सान्वयः सङ्गच्छते । महानसादौ दृष्टान्ते तथाविधसाध्येन समं धूमस्य व्याप्त्यप्रतीतेः । तन्न धर्मोऽपि साध्यः । नापि तत्समुदायः । तस्याप्यन्यत्रानन्वयात् । न हि यत्र यत्र धूमस्तत्र तत्र वह्निमान्पर्वतनितम्ब इत्यन्वयः प्रतीतिधुरामधिरोहति । मूलानुमानविषयापहारिणोऽनुमानविरोधस्य विशेषविरुद्धापराभिधानस्येष्टविघातकृतः सन्देहहेतोर्विरुद्धाव्यभिचारिणो वा सर्वत्रानुमाने सम्भा- १० व्यमानत्वाच्च दुष्प्रापं प्रामाण्यम् । तदुक्तम् ।
" विशेपेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ १ ॥ अनुमान विरोधो वा यदि वेष्टविघातकृत् । विरुद्धाव्यभिचारस्तु सर्वत्र सुलभोदयः ।। २ ।। "
इति । किंच
देशकालदशाभेद - विचित्रात्मसु वस्तुषु ॥ अविनाभावनियमो न शक्यो लब्धुमञ्जसा ॥ २६७ ॥ भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ॥ जगत्रयगताशेषपदार्थालोचनाद्विना ॥ २६८ ॥
न चाध्यक्षीकृता यावद्भूमा ग्निव्यक्तयोऽखिलाः । तावत्स्यादपि धूमोऽसौ योऽनन्नेरिति शक्यते ॥ २६९ ॥
ये तु प्रत्यक्षतो विधं पश्यन्ति हि भवादृशाः । किं दिव्यचक्षुषां तेषामनुमाने प्रयोजनम् ॥ २७० ॥
१ अविनाभावो - व्याप्तिः । २ ' प्रत्यक्षीकृता ' इति प. पुस्तके पाठः ।
" Aho Shrut Gyanam"
२६३
१५
२०