________________
२६४
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सू. १
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं हि न सामान्य नाम किंचन विद्यते ॥ २७१ ॥ भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते । सहस्त्रशोऽपि न दृष्टौ व्यभिचारावधारणात् ॥ २७२ ।। बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ २७३ ।। भूयोदृष्टया च धूमोऽग्निसहचारीति गम्यताम् । अनग्नौ तु स नास्तीति न भूयोदर्शनादतिः ॥ २७४ ।। न चौप्यदृष्टिमात्रेण गमकः सहचारिणः ।। तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ।। २७५ ।। नियमस्यानुमांगत्वं गृहीत्वा प्रतिपद्यते । ग्रहणं चास्य नान्यत्र नास्तितानिश्चयं विना ॥ २७६ ॥ दर्शनादर्शनाभ्यां तु नियमग्रहणं यदि । तदप्यसदननौ हि धूमस्येष्टमदर्शनम् ।। २७७ ।। अनग्नि च क्रिया सर्वं जगज्ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्वं नैव पैश्यन्ति योगिनः ।। २७८ ।। तदेवं नियमाभावात्सत्यपि ज्ञप्त्यसम्भवात् । अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ।। २७९ ॥ स्मृत्यादिकेऽपि विज्ञाने प्रमाणत्वमनोरथः ।
त्यज्यतां येन संवादः स्वार्थे तम्यातिदुर्लभः ॥ २८० ॥ एवं चाध्यक्षमेकं कलयति जगतीमण्डले मानमुद्रा
मन्यत्स्वर्गापवर्गप्रकटननिपुणं नैव किंचित् प्रमाणम् ॥ तस्मात्स्वान्तानुकूलं कवलयत सदा दत्त वित्तं प्रियेभ्यो
मा मा धूर्तोपदेशैर्बत कुरुत वृथा वञ्चनी स्वम्य मुग्धाः ॥२८१॥ १'हि दृष्टो' इति म. पुस्तके पाठः । २ 'च स्वात्मा' इति म. पुस्तके पाठः। ३ 'नान्य' इति भ. पुस्तके पाठः ४ 'पश्यन्त्ययोगिनः' इति प. पुस्तके पाठः।
"Aho Shrut Gyanam"