________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः
२६५ चार्वाकतस्कर किमित्थमरे निकामं
निर्लज गजसि विसर्पदनल्पदात् । किं नैव पश्यसि पुरः पततः परोक्ष
प्रामाण्यसाधकसुयुक्तिदृढप्रहारान् ॥ २८२ ।। तथा हि यत्तावदूचे प्रत्यक्षमेकं घटते प्रमाणमिति । तन्न सुघटम्। ५ यतः स्वपरव्यवसायिज्ञानत्वं प्रमाणस्य स्वरूपं तस्य च परोक्षेऽप्यनुमानादौ विद्यमानत्वात्कथं प्रत्यक्षमेकं प्रमाणमिति नियमः साधीयान् । तथा हि अनुमानादिकं प्रमाणं स्वपरव्यवसायित्वात्प्रत्यक्षवदिति युक्तिमाकलयन् कः सचेताः प्रामाण्यमनुमानादेर्नि[वीत । यच्चोक्तं नानुमानं तावत्प्रमाणं गौणत्वादित्यादि । तत्र यदि नाम संक्षिप्ता- १० क्षिप्तचेतोभिः शास्त्रकारैर्धर्मधर्मिसमुदाये संकेतितोऽपि पक्षशब्दस्तदैकदेशे धर्मिण्युपचारेण प्रयुक्तो भवेन्नैतावता शास्त्रे पक्षशब्दात्प्रतिपत्तौ धर्मिणो गौणता । अनुमानसमये पुनः प्राकृतैरिव तार्किकैरप्यप्रयुक्तपक्षशब्दरेव धर्मिणः प्रत्यक्षतः प्रतीयमानत्वे कथं गौणता । तदगौणतायां च तदधिकरणस्य हेतोरप्यगोगलात्कथं तज्जन्यस्यानुमानस्य गौणत्वं १५ गदितुमैनुगुणम् । यच्चोक्तं तत्त्ववृत्तावुझ्टेन " लक्षणकारिणा लाघविकत्वेनैव शब्दविरचनव्यवस्था, न चैतावताऽनुमानस्य गौणता, यदि च साध्यैकदेशधर्मिधर्मत्वं हेतो रूपं ब्रूयुस्ते, तदा न काचिल्लक्षणेऽपि गौणी वृत्तिः" इति । यत्तु तेनैव परमलोकायतम्मन्येन लोकव्यवहारैकपक्षपातिना लोकप्रसिद्धधूमाद्यनुमानानि पुर- २० स्कृत्य शास्त्रीयस्वर्गादिसाधकानुमानानि निराचिकीर्षता “प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभः" इति पौरन्दरं सूत्रं पूर्वाचार्यव्याख्यानतिरस्कारेण व्याख्यानयता इदमभिहितं " हेतोः स्वसाध्यनियमग्रहणे प्रकारत्रयमिष्टं दर्शनाभ्यामविशिष्टाभ्यां दर्शनेन
१ अनुगुणं-सदृशम् । २ ' लक्षणकाराणां' इति म. पुस्तके पाठः । ३ पुरन्दरनामकः कश्चित् ग्रन्यकारः ।
"Aho Shrut Gyanam"