________________
प्रमाणनय तत्त्वालोकालङ्कारः
[ परि. २ सू. १
विशिष्टानुपलब्धिसहितेन भूयोदर्शनप्रवृत्त्या च लोकव्यवहारपतितया, तत्राद्येन ग्रहणोपायेन ये हेतोर्गमकत्वमिच्छन्ति तान् प्रतीदं सूत्रं लोकप्रसिद्धेष्वपि हेतुषु व्यभिचारादर्शनमस्ति तन्त्रसिद्धेष्वपि तेन व्यभिचारादर्शन लक्षण गुणसाधर्म्यतः तन्त्रसिद्ध हेतूनां ५ तथाभावो व्यवस्थाप्यत इति गौणत्वमनुमानस्य । अव्यभिचारावगमो हि लौकिकहेतुनामनुमेयावगमे निमित्तं स नास्ति तन्त्रसिद्वेष्विति न तेभ्यः परोक्षार्थावगमो न्याय्योत इदमुक्तमनुमानादर्थनिश्चयो दुर्लभ इति " इति । तदेतत्तस्य वचनं दर्शनादर्शनमात्रेण हेतुव्याप्तिग्रहणवादिनो जैमिनीयान्दुनोति न पुनस्तर्काख्य१० सुदृढप्रमाणेन सर्वत्र साधनसंबन्धबोधाभिधायिनो जैनान् । यथैव हि तर्कप्रमाणेन लौकिकहेतूनामव्यभिचारनिश्चयः कर्तुं शक्यस्तथा तन्त्रप्रसिद्ध हेतूनामपीति कथं न तेभ्योऽपि स्वसाध्यप्रतिपत्तिः । न वाऽवश्यं बौद्धैरिवास्माभिरपि पक्षधर्मत्वं हेतोः स्वरूपमिप्यते । येन गौण हे तो जीयमानमनुमानमपि गौणं स्यात् । अन्यथानुपपत्तेरेव तत्स्वरू१५ पत्वेन स्वीकरणात् । तन्न गौणत्वादनुमानस्याप्रामाण्यं वक्तुं युक्तमिति । अथास्पष्टस्वरूपत्वात्, स्वार्थनिश्वये परापेक्षत्वात्, प्रत्यक्षपूर्वकत्वात्, अर्थादनुपजायमानत्वात्, अवस्तुविषयत्वात्, बाध्यमानत्वात् साध्यसाधनयोः प्रतिबन्धसाधकप्रमाणाभावाद्वा तस्याप्रामाण्यमुच्यते । तदप्यनुचितम् । यतो न तावदस्पष्टस्वरूपत्वादप्रामाण्यमनुमानस्य २० घटते । यदि हि स्पष्टत्वं प्रमाणलक्षणं भवेत्तदिदानीमनुमानानिवर्त्तमानं प्रामाण्यमादाय निवर्त्तत इत्यप्रामाण्यमस्योपपन्नं स्यात् । न चैतत्प्रमाणलक्षणलक्षणम् । द्विचन्द्रादिज्ञाने स्पष्टत्वस्य सद्भावेऽपि प्रामाण्यासम्भवात् । स्वार्थनिश्चये परापेक्षत्वमप्यनुमानस्य नावश्यंभावि । प्रत्यक्षवत्तस्य तन्निश्चयेऽभ्यासावस्थायां परनिरपेक्षत्वात् । २५ अनभ्यासावस्थायां तु स्वार्थनिश्चये परापेक्षत्वं प्रत्यक्षस्यापि विद्यते ।
१ तत्स्वरूपत्वेन - हेतुस्वरूपत्वेन । २ 'लक्षण' इति नास्ति प. म. पुस्तकयोः ।
२६६
" Aho Shrut Gyanam"