________________
परि. २ सू. १] स्याद्वादरत्नाकरसहितः
२६७ प्रत्यक्षपूर्वकत्वं चानुमानस्यासिद्धम् । तारख्यप्रमाणपूर्वकत्वेन तम्याभिधास्यमानत्वात् । अस्तु वा प्रत्यक्षादेवानुमानस्य जन्म तथापि नाप्रामाण्यम् । प्रत्यक्षं हनुमानस्य जन्मनि निमित्तम् । स्वसामग्रीतश्वोपजायमानस्य तस्याप्रामाण्ये प्रत्यक्षस्यापि तत एवाप्रामाण्यापत्तिः । किं च प्रत्यक्षपूर्वकत्वेनानुमानस्याप्रामाण्ये प्रत्यक्षस्यापि कस्यचिदनु- ५ मानपूर्वकत्वेनाप्रामाण्यानुषङ्गः । दृश्यते हि सामर्थ्यमनुमानानिश्चित्य प्रवर्त्तमानस्य प्रमातुरनुमानपूर्विका प्रत्यक्षप्रवृत्तिः । अर्थादनुपजायमानत्वमप्यनुमानस्याघटमानम् । प्रत्यक्षवत्तस्याप्यादुत्पत्तेरनुभूयमानत्वात् । अवस्तुविषयत्वं चास्यासिद्धम् । प्रत्यक्षवत्सामान्यविशेषात्मकार्थगोचरत्वात्तस्य । न ह्यवस्तुभूतापोहगोचरमनुमानं सौगतवज्जैन- १० रिष्टम् । तत्र तद्गोचरत्वस्य निराकरिष्यमाणत्वात् । बाध्यमानत्वं च सम्यगनुमानस्यानुमानामासस्य वा । प्रथमपक्षोऽनुपपन्नः । सत्यधूमादिसाधनादम्याद्यनुमाने बाध्यमानत्वस्यासम्भवात् । अनुमानाभासस्य तु तत्सम्भवे तस्यैवाप्रामाण्यं युक्तं न सम्यगनुमानस्य । अन्यथा प्रत्यक्षाभासस्य बाध्यमानत्वेनाप्रामाण्योपलम्भात्सम्यक्प्रत्यक्षस्याप्यप्रामाण्या- १५ पत्तिः । साध्यसाधनयोः प्रतिबन्धग्राहकप्रमाणाभावश्चासिद्धः । तर्काख्यप्रमाणस्य तद्राहकस्य सद्भावात् । तथा च सति ननु कुतस्तस्य तेन सम्बन्धसिद्धिः प्रत्यक्षादनुमानाद्रेत्यादि प्रागुद्दिष्टं प्रत्यादिष्टम् । सार्वत्रिकसम्बन्धप्रतीतौ च यथा तर्कस्य सामर्थ्य तथा कथयिष्यत इति ।
तम्माद्ब्रहस्पतिमतोपनिषत्प्रियेण
प्रोक्ता प्रमाविमुखताऽनुमितावियं या । इत्थं विकल्पपरशुप्रबलपहारैः
सा चिच्छिदे सपदि मूलत एव सभ्याः ॥ २८३ ।। किं च यथार्थं प्रमाणं नायथार्थमिति यदा परः प्रतिपाद्यते त्वया । २५ तदा काश्चिदयथार्थाः प्रामाण्यव्यक्तीः परित्यज्य यथार्थाश्चाभ्युपगम्य
"Aho Shrut Gyanam"