________________
२६८
प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू.१ यदीदृशं तत्प्रमाणं नान्यादृशमिति तं प्रति प्रतिपादनीयम् । एतच्चानुमानाद्विना न प्रतिपादयितुं शक्यम् । न खलु पुरोवर्तिवर्तमानप्रतिनियतरूपत्वादिविषयोपारूढेन प्रत्यक्षेणैतत्प्रतिपादयितुं पार्यते । परश्च बुद्धिमत्त्वेन स्तम्भादिभ्यो विलक्षणः प्रतिपाद्यमानार्थग्रहणसमर्थों निश्चितः सन् प्रतिपाद्यो भवति । न च तन्निश्चयेऽनुमानादन्यस्य सामर्थ्यम् । प्रत्यक्षस्य रूपादिविषयप्रतिपत्तावेव सामर्थ्यात् । कथं चानुमानानभ्युपगमे स्वस्याप्यवस्थापितप्रमाणप्रमेयव्यतिरिक्तप्रमाणप्रमेयस्य निषेधः । प्रत्यक्षस्यात्रासामर्थ्यात् । तदुक्तं कीर्तिना,
" प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसदावः १० प्रतिषेधाच्च कस्यचित् ॥ १॥” इति । अस्यार्थः । अवश्यमयं
चार्वाकोऽनुमानमपवदमानः प्रमाणाप्रमाणयोः स्थितिं स्थापयितुमनुमानं मन्येत । तदपवादे सैव तयोः स्थितिर्न घटते । तदा हि न घटेत यदि न सामान्येन क्रियते । सामान्येन च कर्त्तव्या । अनुभूताननुभूतस्वपरसन्तानवर्तिप्रमाणाप्रमाणव्यक्तिव्याप्त्या क्रियते यतः । तादृशी च प्रत्यक्षमात्रप्रमाणवादिनः शक्यक्रियाप्रमाणेतरलक्षणयोगिनीनां विज्ञानव्यक्तीनां सर्वासामप्रत्यक्षत्वात् । प्रत्यक्षाणां च परेभ्योऽनुपदेश्यत्वात् । अत उक्तम् । प्रमाणेतरसामान्यास्थितेः प्रमाणान्तरसद्भाव इति तथाऽन्यधियो गतेः परचित्तज्ञानात् । अन्यदीया हि धीः काय
वाग्व्यापारव्यवहाराभ्यां कार्यलिङ्गाभ्यामनुमीयते न प्रत्यक्षेणेक्ष्यते । २० कस्यचिच्च प्रतिषेधात् । न ह्यनुपलब्धिलिङ्गमनुमानमन्तरेण कचित्
किंचित्प्रतिषेद्धं शक्यते । तदनेन सूत्रेण त्रिविधत्रिरूपस्वभावकार्यानुपलब्धिलिङ्गानुमानसद्भावः परेणाप्यभ्युपगतोऽन्यथा व्यवहारविलोपप्रसंगादित्युक्तमिति । किं चानुमानस्यापह्नवस्तत्स्वरूपाभावानिरवद्यतल्ल.
क्षणाभावाद्वा स्यात् । न तावत्तत्स्वरूपाभावात् । तत्स्वरूपम्य सकल२५ जनप्रतीतत्वात् । न चेदमसिद्धम् , यत:
९ धर्मकीर्तिना । २ परेण-चावकिन ।
"Aho Shrut Gyanam"