Book Title: Sukhbodhakhya Vruttiyutani Yttaradhyayanani
Author(s): Umangsuri, Nemichandrasuri
Publisher: Pushpchandra Kshemchandra

View full book text
Previous | Next

Page 9
________________ श्रीउत्तरा ध्ययनसूत्रस्य 11 8 11 वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे श्रीजिनराजसूरयस्तत्पट्टे श्रीजिनवर्धन सूरयस्तेषां पट्टे श्रीजिनचन्द्रसूरयस्तदीयान्वये श्री जिनसागरसूरयस्तदन्वये श्रीजिनचन्द्रसूरयस्तत्पट्टपूर्वाचलसहस्रकरावतार श्रीपूज्यराज श्री जिन हर्ष सूरीणामुपदेशेन श्री उपकेशवंशे छाझहडगोत्रे सं० खीमाभार्या सं० खेतलदेपुत्र सं० कउझकेन सं० कर्पूरदेपुत्र सं० देवदत्त पौत्र सं० नाकरप्रमुख परिवारसहितेन श्रीउत्तराध्ययनलघुवृत्तिरलेखि पं० कमलसंयममुनिपठनार्थम् ॥” इति । तृतीया च — एकषष्ट्युत्तरद्विशत (२६१) पत्रात्मिका प्राचीनप्राया शुद्धप्राया च, अस्या (१-१७३-१७४-१७५-१७६१७७-१७८ ) मेतावन्ति पत्राणि न सन्ति । प्रान्ते वृत्तिकर्तुः प्रशस्तिरपि नास्ति, परं पुस्तकलेखकस्य महती पुष्पिका त्वम् - "आसीत् श्रीराजगच्छे सदसि नरपतेरल्हणाख्यस्य साङ्ख्यग्रन्थव्याख्याविधाताऽन्नलनृपतिपुरो वादिगर्वापहर्त्ता । जैनावज्ञाप्रसक्तं जिनमतसुदृढं विग्रहेशं विधाय, श्रीमज्जैनेन्द्रधर्मोन्नतिकरणपटुर्धर्मसूरिर्मुनीन्द्रः ॥ १ ॥ वादीन्द्रः | किल धर्मसूरिरभवच्छ्रीरलसिंहाभिधो, देवेन्द्रोऽपि गुरुस्ततोऽप्युदभवद्रलप्रभः सूरिराट् । आचार्यो विजयीश्वरः प्रभुरभूद्विद्वज्जने स्वस्थधीः, सूरीशोऽपि च रत्नचन्द्रसुगुरुराणन्दसूरिस्ततः ॥ २ ॥ ततोऽप्यभूवन्नमरप्रभेन्द्रा, विबोधिता यैर्बहुशो नरेन्द्राः । तेषां क्रमोल्लासनभानुमाली, पुरा भवति स्म ज्ञानेन्दुशाली ॥ ३ ॥ श्रीसागरेन्द्रसूरीशाः, सत्क्रियासु विशारदाः । तत्पट्टभूषणाश्चासन्, सूरयो मलयेन्दवः ॥ ४ ॥ सकलवादिमदद्विपकेशरी, स पद्मशेखरसूरिगुरुस्ततः । बहुविनेयवरेष्वपि वाचकः, समभवद्भुवि भावशशी मुनिः ॥ ५ ॥ सुशिष्यो भावचन्द्रस्य, कर्मसागरपाठकः । विश्रुतः शास्त्रनैपुण्या कलाकेलिकुतूहली ॥ ६ ॥ तेषां सुश्रावकाचाथ, भूरयः सूरवंशजाः । सद्गुणाढ्यस्य वंशस्य, प्रपूर्तिर्विस्तरा न किम् ||७|| सूराणवंशस्य पटुप्रदीपः, श्रीसूरदेवो भुवि सुप्रतापः । तदन्वयेऽभूद्वरदेवकाख्यः, पुत्रः पवित्रो ननु पद्मसिंहः || ८|| मोषाको रत्नसिंहश्च, कमलरूपा तथैव च । मुनिचन्द्रः सोमदेवश्च पद्मसिंहस्य लघुवृत्तेः प्रस्तावना ! ॥ ४ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 798