Book Title: Subodhikakhya vruttiyutama Author(s): Vinayvijay, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 3
________________ श्रीकल्पसूत्रस्य भूमिका ।( द्वितीयसंस्करणे ) उपादीयतां भोः शुभवद्भिर्भवद्भिरनूनमहिममिदमाविष्क्रियमाणं श्रीकल्पसूत्र, प्रणेतारोऽस्य श्रुतकेवलिनो भद्रबाहुस्वामिनः अष्टमाध्ययनता दशाश्रुतस्कन्धस्य पञ्चदिन्या वाच्यमानता ससमाधानानि विवादस्थानानि गर्भापहारस्य कल्याणकत्वानौचिती श्रीवीरजिनस्येतिवृत्तं तस्य राजकुमारता आदिनाथप्रभोर्लेखादिदर्शनमुपकाराय श्रीजम्बूस्खाम्यादिमहापुरुषचरित्रैदम्पर्य प्रस्तुताया व्याख्याया मुद्रणे हेतुरित्यादि प्रतिपादितं प्रथमावृत्तौ द्वीपषड्नन्देन्दु (१९६७) प्रमिताब्दहायनोद्भावितायामिति तत एवावलोकनीयं, सा ह्यावृत्तिः प्रस्तुतसाहित्योद्धारकोशात् स्वद्रव्येणाविर्भाविताऽभूत् , इयं त्वावृत्तिः सौराष्ट्रदेशीयनूतननगरापराभिधानजामनगरवास्तव्यस्य धर्मंकतानस्य जैनशासनसुधा| पानहृदयपावनस्याप्रतिमौदार्यगुणजुषः शासनहितकरणैकबद्धलक्षस्य प्रभूतसहस्रदम्भव्ययेनामेयमहिम्नि श्रीसिद्धक्षेत्रापराभिधानपादलिप्तनगरे । चतुर्मास्युपधानोद्वाहनादिकारिणः श्रीमतां सेलाणाधिपानां जीवदयापट्टककारिणां गुणैरनुरजितमनस्कतया सेलाणापुर्या श्रीदिलीपसिंहाभिधाननरेन्द्रनामाङ्कितपौषधशालाविधायकवरस्य श्रेष्ठिपोपटभाइइत्याख्यसुपुत्रेण पुत्रीभवतः श्रीधारासिंहश्रेष्ठिनो देवराजापत्यस्य साहाय्येन तत्तनुजलक्ष्मीचन्द्रस्य स्मृत्यथै मुद्रिता, अनेन हि श्रेष्ठिना प्राक् मोहमय्यां साहित्योद्धारसमितये दत्ता द्रम्माः परःसहस्राः, परं संचालकानां शासनपारतच्यानङ्गीकारात् विशीर्णाऽऽमूलचूलंसा, ततस्ते द्रम्मा वितीर्णत्वादगृह्णता दत्त्वाऽस्मभ्यं मुद्रापितेयं, तस्याननुगुणरञ्जितमनस्कतया Po20207020200090020202020 Jain Education Interational For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 412