Book Title: Stuti Chaturvinshatika Sachitra
Author(s): Hiralal R Kapadia
Publisher: Agmoday Samiti

Previous | Next

Page 421
________________ ३०४ સ્તુતિચતુર્વિશતિકા श्रीअम्बिकायाः स्तुतिः - सरभसनतनाकिनारीजनोरोजपीठी लुठत्तारहार स्फुरद्रश्मिसारकमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते ! भासिनी हारतारा बलक्षेमदा | क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्ट कण्ठोद्भटे संस्थिते ! भव्यलोकं त्वमम्बाऽम्बिके ! परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा ॥९६॥ - अर्णव ० २४ श्रीव टीका १' जा राव ' इत्यपि पाठः । 6 सरभसेति । ' सरभसनतना किनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे! ' सरभसं नतः - प्रणतो यो नाकनारीजनः तस्योरोजपीठीषु-स्तनपर्यङ्किनकासु लुठतां तारहाराणां स्फुरद्भी रश्मिभिः सारे-कर्वरे क्रमाम्भोरुहे यस्याः सा संबोध्यते । 'परमवसुतराङ्गजा ' अतिशयेन परमवसु - परमतेजसौ अङ्गजौ - पुत्रौ यस्याः सा । ' आरावसन्नासितारातिभारा ' आरावेण-ध्वनिना सन्नाशितः - सम्यग् अदर्शनं नीतः अरातिभारः - शत्रुसन्दोहो यया सा । ' अजिते ! ' अनभिभूते ! । ' भासिनी' भासनशीला । 4 हारतारा ' मौक्तिकमालोज्ज्वला । 'बलक्षेमदा बलं - सामर्थ्य क्षेमं - कल्याणं ते ददाति या सा । ' क्षणरुचिरुचिरोरुचञ्चत्सासङ्कटोत्कृष्ट कण्ठोद्भटे ' क्षणरुचिरुचिराभिः - विद्युद्दीप्ताभिः उरुभिश्चञ्चन्तीभिः सटाभिः सङ्कट उत्कृष्टो यः कण्ठः तेनोद्भटे-कराले । सिंहस्य विशेषणमेतत् । ' संस्थिते !' निषण्णे ! । ' भव्यलोकं ' भव्यजनम् । ' एवं ' भवन्ती । ' अम्ब!' मातर् ! । ' अम्बिके ! ' अम्बादेवि ! | ' परमं ' उत्कृष्टम् । ‘ अव ' रक्ष | ‘ सुतरां ' अत्यर्थम् | 'गजारौ ' केसरिणि । ' असन्ना ' अखिन्ना । ' सितारातिभा' आरशब्देन रीतिकांगारकचोच्यते सितस्य तनूकृतस्यारस्य व अतिशयेन भा - दीप्तिर्यस्याः सा । ' राजिते ' भ्राजिते । ' भासि ' दीप्तिविषये । ' नीहारताराबलाक्षे ' नीहारं - हिमं तारा - नक्षत्राणि तद्वद् बलक्षे - धवले । 'अमदा ' मदरहिता । हे अम्बिके ! गजारौ नीहारताराबलक्षे संस्थिते सुतरां त्वं भव्यलोकं अवेति सम्बन्धः ॥ ९६ ॥ इति श्रीमहाकविधनपालेन कृता शोभनचतुर्विंशतिकाया वृत्तिः समाप्ता । आसनाम्भोरुहभ्राज- दक्षाक्षिप्ताऽऽशु भासिता । शान्तिदेवी मुदे स्ताद् वो, दक्षा क्षिप्ताशुभा सिता ॥ १

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478