________________
३०४
સ્તુતિચતુર્વિશતિકા
श्रीअम्बिकायाः स्तुतिः - सरभसनतनाकिनारीजनोरोजपीठी लुठत्तारहार स्फुरद्रश्मिसारकमाम्भोरुहे !
परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते ! भासिनी हारतारा बलक्षेमदा | क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्ट कण्ठोद्भटे संस्थिते ! भव्यलोकं त्वमम्बाऽम्बिके ! परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा ॥९६॥ - अर्णव ०
२४ श्रीव
टीका
१' जा राव ' इत्यपि पाठः ।
6
सरभसेति । ' सरभसनतना किनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे! ' सरभसं नतः - प्रणतो यो नाकनारीजनः तस्योरोजपीठीषु-स्तनपर्यङ्किनकासु लुठतां तारहाराणां स्फुरद्भी रश्मिभिः सारे-कर्वरे क्रमाम्भोरुहे यस्याः सा संबोध्यते । 'परमवसुतराङ्गजा ' अतिशयेन परमवसु - परमतेजसौ अङ्गजौ - पुत्रौ यस्याः सा । ' आरावसन्नासितारातिभारा ' आरावेण-ध्वनिना सन्नाशितः - सम्यग् अदर्शनं नीतः अरातिभारः - शत्रुसन्दोहो यया सा । ' अजिते ! ' अनभिभूते ! । ' भासिनी' भासनशीला । 4 हारतारा ' मौक्तिकमालोज्ज्वला । 'बलक्षेमदा बलं - सामर्थ्य क्षेमं - कल्याणं ते ददाति या सा । ' क्षणरुचिरुचिरोरुचञ्चत्सासङ्कटोत्कृष्ट कण्ठोद्भटे ' क्षणरुचिरुचिराभिः - विद्युद्दीप्ताभिः उरुभिश्चञ्चन्तीभिः सटाभिः सङ्कट उत्कृष्टो यः कण्ठः तेनोद्भटे-कराले । सिंहस्य विशेषणमेतत् । ' संस्थिते !' निषण्णे ! । ' भव्यलोकं ' भव्यजनम् । ' एवं ' भवन्ती । ' अम्ब!' मातर् ! । ' अम्बिके ! ' अम्बादेवि ! | ' परमं ' उत्कृष्टम् । ‘ अव ' रक्ष | ‘ सुतरां ' अत्यर्थम् | 'गजारौ ' केसरिणि । ' असन्ना ' अखिन्ना । ' सितारातिभा' आरशब्देन रीतिकांगारकचोच्यते सितस्य तनूकृतस्यारस्य व अतिशयेन भा - दीप्तिर्यस्याः सा । ' राजिते ' भ्राजिते । ' भासि ' दीप्तिविषये । ' नीहारताराबलाक्षे ' नीहारं - हिमं तारा - नक्षत्राणि तद्वद् बलक्षे - धवले । 'अमदा ' मदरहिता । हे अम्बिके ! गजारौ नीहारताराबलक्षे संस्थिते सुतरां त्वं भव्यलोकं अवेति सम्बन्धः ॥ ९६ ॥
इति श्रीमहाकविधनपालेन कृता शोभनचतुर्विंशतिकाया वृत्तिः समाप्ता ।
आसनाम्भोरुहभ्राज- दक्षाक्षिप्ताऽऽशु भासिता ।
शान्तिदेवी मुदे स्ताद् वो, दक्षा क्षिप्ताशुभा सिता ॥ १