Book Title: Stotra Granth Samucchaya
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ पाठ्यते चर्च्यते वा । प्राकृतक्षेत्रमेवोपेक्षणीयं जातम् । ईदृश्यां स्थित्यामपि प्राकृतभाषयतावन्ति स्तोत्राण्येकेनैव सूरिणा रचितानीत्येतत् प्राकृतप्रेमपरवशतामेव द्योतयति । या किल भगवतो भाषा, तया तस्यैव गुणकीर्तनं, या खलु जिनशासनस्य निजा वाणी, तया तस्यैव माहात्म्यगानं कियदानन्ददायकम् ? तत्रापि सूरीणां रचनासृष्टेविशालतां पश्यन्तु, सर्वासां विधानां तत्र समावेशः, न किमपि जिनशासनाङ्गं तत्परिधेर्बहिस्तिष्ठति । प्रकीर्णरचनासन्दोहः - अत्र समाविष्टानि स्तोत्राण्युपरिनिर्दिष्टैश्चतुभिर्महापुरुषैरेव विरचितानि । एतानि नन्दनवनकल्पतरु-जैनसत्यप्रकाशपत्रिकयोः प्रकाशितानि तत एव च सगृहीतानि । द्वित्राण्यन्यस्मात् स्रोतसोऽपि गृहीतानि । एतेषां सम्पादकानां प्रकाशकानां च कार्तश्यमावहत्ययं सङ्कलनकारः । एतेषां स्तोत्राणां रमणीयता तु रसनास्वादैकगम्या, नाऽत्र तद्विषयेऽधिकं चर्च्यते । ग्रन्थपरिचयोऽत्र समाप्ति भजति । नैतावता मया ग्रन्थानां माहात्म्यमंशतोऽपि विशदीकृतम् । इतोऽप्यत्र बहु बहु लेखनीयम् । परं मम लेखनी तादृशीं क्षमतां नैव बिभति । वस्तुत आवश्यकताऽपि नाऽस्ति । कान्दविकैः सज्जीकृतानि स्वादूनि मिष्टान्नानि भवतां पुरतः परिवेषितानि परिवेषकेण । किमथो तस्य मधुरिमागानेन? स्वयमेव कणेहत्याऽऽस्वद्यन्तां, ब्रह्मानन्दसहोदरश्चाऽऽह्लादोऽनुभूयताम् । पूज्यतमैर्गुरुचरणैः श्रीविजयशीलचन्द्रसूरिभिरेवाऽहमस्मिन् कार्ये प्रेरितो नियोजितोऽसमञ्जसस्थितौ समाहितः कृपादानेनाऽनुगृहीतश्च । तेषामियमाशीर्वृष्टिर्मय्यविरतं पतत्वित्येव तेषां श्रीचरणयोविज्ञप्तिः । ज्येष्ठानां मुनिवराणां सौहार्देन साहाय्यदानमेव मम प्रेरकबलम् । कार्येऽस्मिन् तद् बलं कियत् समर्थकं जातं तदहमेव जानामि । संशोध्यप्रतेः (proof) द्विस्त्रिर्वा सावधानमवलोकनेऽप्यर्थानवगम-त्वराकरणादिहेतुभिः स्खलना अवशिष्टाः स्युरेव । ताः संसूच्याऽनुग्राह्योऽयं जन इति विदुषां पुरतः सादराऽभ्यर्थना । श्रीश्रमणसङ्घ एतेषां स्तोत्राणां पठनेन भक्त्युल्लसितो भवत्वित्याशया सह... श्रीविजयशीलचन्द्रसूरिशिष्यः मुनि-त्रैलोक्यमण्डनविजयः

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 380