Book Title: Stambhana Parshwanath Dwantrishad Prabandhoddhara Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ 66 जयविधिस्तैरुक्तः ? । स प्राह ओं ! परं मध्यरात्रे वक्ष्ये, अधुना जना(नाः) शृण्वन्ति । तावद्राजा सर:पालौ वटगह्वरे स्थितो निशीथे तदुक्ति सु(शु) श्राव । अस्य वटस्याधः पुरुषत्रयं खनने मणिरस्ति । तस्मिन्करेबद्धे खगमनशक्तिः स्यात् । तबलेन चंदनाचले कंकोलवनेऽग्निशृङ्गशिखरे सिन्दूरकुण्डान्तः सिद्धैरज़मानं जिनबिम्बं यदि गत्वा स्वपुरे नयति तदा नीरुग् जीवति । नृपस्तत्र गत्वा तल्लात्वा यावदेति तावत्पुरं सीमालैवेष्टितं पश्यति । बिम्बमुत्पाट्य स्वगृहे सिंहासने न्यस्य यावदचितं तावत्सीमाला भयद्रुता नष्टाः । राज्ञः पट्टाभिषेक: । श्राद्धो राज्यं स्वः क्रमात्सेत्स्यति ॥११ जयवादः ।। नक्तपालदेशे श्रीपुरे भीमसेननृपो गुरुं पप्रच्छ । अहं शत्रुञ्जये यात्रेच्छुरंतरा च भीः, किं कुर्वे ? गुरुराह श्रीक्षेमङ्कराख्यबिम्बं मानुषोत्तराद्रौ रत्नप्रस्थे त्रिभुवनस्वामिन्याऽय॑मानमस्ति । शासनदेवीमाराध्य तत्र गत्वा तस्यार्हतः प्रसादात् श्रीशत्रुञ्जययात्रामनोरथं पूरयेः तेन साराद्धा । क्षेमङ्कराख्यबिम्बमचितम् । लब्धो वरः । देवसान्निध्याज्जङ्गमवप्रेण गत्वा श्रीशत्रुञ्जययात्रा कृता । न केनाऽप्यध्वनि पराभूतः । राज्यान्तेऽन्तःकृत्केवली भूत्वा सिद्धः ॥ १२ मनोरथः ॥ नर्मदापाददेशे नंदपुर्यां चन्द्रशेखरनृपश्चन्द्रकान्तिदेवी । पापद्धिहतसिंहजीवव्यन्तरेण तस्य २१ पूर्वजा हताः । सोऽपि पापद्धिसक्तोऽन्यदा वने क्रीडन् विन्ध्याद्रिगह्वरे तोरणमालाख्यटूंके आम्रारामे उदुम्बरसरस्यखाते नर्मदाम्बुपूर्णे साजणगाजणाख्यमुदुम्बरवृक्षद्वयं एकतो मुनिं च दृष्टवाऽपृच्छत् । के यूयम् ? किमित्यत्र ? स प्राह- कर्णाटेशविकटोत्कटनृपसूर्घटोत्कटोऽहं शबरनाथाख्यबिम्बं नन्तुमत्रागाम् । ततः क्वास्तीति पृष्टे मुनिराह - अस्योदुम्बरस्य मध्ये । कुत इत्युक्ते मूलसम्बन्धमाह 'मुनिः । पुरा शबररूपिणा शिवेनात्र वृक्षमूले शूकरस्य शरो मुक्तो न लग्नः । स विस्मितः । शान्तोऽचिन्तयत् । नूनं क्वापि अर्हत्प्रतिमाऽस्तीति । तावत्प्रादुरासीत् सा। वन्दिता तेन हृष्टेन सता । शबररूपेश्वरेण स्थापित त्वात् शबरनाथ इति नाम तद्विम्बं अस्योदुम्बरस्य मध्ये बीडितमस्ति तेन गच्छता । तावत् नृपो भक्त्या आहदेव ! यदि भक्तोऽहं देहि मे दर्शनम् । प्रकटीभूत देवः तेन हृष्टेन तद्वाण्या पापद्धिस्त्यक्ता । श्राद्धः । क्रमान्मुनिर्भूत्वा सिंहजीवव्यन्तरं प्राबोधयत् । मृत्वा सर्वार्थसिद्धिं ययौ ॥१३ पापद्धिः ॥ पाठां. १. ऋषिः । २. स्थापितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15