Book Title: Stambhana Parshwanath Dwantrishad Prabandhoddhara
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229368/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री स्तम्भनपार्श्वनाथ-द्वात्रिंशत्प्रबन्धोद्धारः ।। -सं. विजयशीलचन्द्रसूरि नागेन्द्रगच्छीय श्रीमेरुतुंगसूरिकृत "स्तम्भनाधीश प्रबन्धाः"नी एकमात्र उपलब्ध प्रति-आधारित वाचना आ अंकमां आपी छे. आ प्रबन्धोनो संक्षेप करीने थयेल "उद्धार"नी बे प्रति प्राप्त थई छे, जे पाछळ्थी कोईक अज्ञात अभ्यासीए कों होवानुं समजाय छे. "उद्धार"नी प्राप्त बे प्रतिओमां प्रथम ६ पत्रोनी, प्रमाणमां घणी शुद्ध अने अनुमानत: पंदरमा शतकना अंतमां के सोळमा शतकना आरंभमां लखाएली जणाई छे. आ प्रतिनी झेरोक्स नकलमां भंडारनुं नाम उल्लिखित नथी, तेथी कया गामना कया भंडारनी छे, ते ख्याल नथी आव्यो. घणा भागे ते छाणीना के वडोदराना भंडारनी प्रति होवानो अंदाज छे. बीजी प्रति, ८ पत्रोनी, अशुद्ध अने प्रथम प्रतिनी नकलस्वरूप जणाय छे. ते लींबडीना ज्ञानभंडारनी छे. मूळ प्रबन्धो तथा तेनो आ संक्षेप - ए बनेने सरखावी जोवाथी इतिहास रसिकोने कांईक ने कांईक नवं प्राप्त थशे तो आ प्रयत्न लेखे लागशे. मूळ प्रबन्धोमां क्यांक अंशो त्रूटक छे, ते प्रबन्धो, अलबत्त साव संक्षेपमां पण अहीं पूर्णाशे मळे छे, ते पण महत्त्वपूर्ण छे. जेम के प्रबन्ध ५ तथा १८माना प्रारंभ तेमज प्रबन्ध ८. तथा १३ना अंतभाग मूल प्रबन्धोमां त्रुटित छे, तो आ संक्षेपमा भले संक्षेपस्वरूपे ज, पण, ते अंशोनुं अनुसन्धान मळे छे. बन्ने कृतिओ एक साथे होवाथी तुलनात्मक तथा भाषाकीय आदि दृष्टिए अभ्यास करवानुं सुगम बनशे तेवी आशा छे. श्रीस्तम्भनपार्श्वनाथ-द्वात्रिंशत्प्रबन्धोद्धारः ।। श्रीस्तम्भनपार्श्वस्य मूर्तिः । शक्रेण कारिता । दत्तनाम्ना जिनेन सौधर्मेन्द्राग्रे ३२ तत्प्रबन्धाः उक्तास्ते मेरुतुङ्गसूरिणा सङ्ग्रहीताः । शङ्खिनीमतात् । दूसमदण्डिकातः । भैरवी चरितात् । कल्परत्नसारात् । बिन्दुसारचूलात् । सोमप्राभृतकर्णिकात् । देवप्रभावपटलाच्च । श्रीसद्गुरुमुखात् । बहुश्रुतादेशाच्च ते चामी । श्रीभरतचक्रिण Page #2 -------------------------------------------------------------------------- ________________ 62 एकदा दिग्विजये प्रस्थितस्य कथंचित् श्रमापथ्याहारादिना शूलमुत्पन्नम् । इन्द्रागमः । तेन समाधिप्रश्ने युष्मत्प्रसादादिति भरतेनोक्ते तुष्टेनेन्द्रेण हिमाद्रिपद्महृदसहस्रपत्रपद्मकर्णिकास्थजगदानंदनामाख्यजिनबिम्बस्त्रात्रांभसा त्वं नीरुग्भावीत्युक्ते हरिणैगमेषिणा तमानाय्य तीर्थजलसहस्रमूलादियुतेन तेन स्त्रपितं सविस्तरम् । शान्तिर्जाता । श्रीऋषभः शूलहेतुं पृष्टः प्राह । प्राक् बाहुभवे साधूनां दग्धान्नपानदानात् ॥ १ रोगः ॥ सगरपुत्रानीतगङ्गाम्बुना रेलिता भूरिति तद्रक्षणाय चलितो भगीरथश्चिन्तातुरः । खे दिव्या गीः । " कल्ये माकन्दसरसि रुक्मिणीवटाधो देवकुले वासकं स्थेयं तत्र विश्वेश्वराख्यो देवस्ते वांछां पूरयिता" । तथा कृते स्वप्नः । दण्डरलेन क्ष्मां विदार्याब्धौ गङ्गां पातयेः । श्रीसगरेण श्री अजितः ६० सहस्रपुत्राणां समकालमृतिहेतुं पृष्टः प्राग्भवानूचे ॥ २ जलम् ॥ विदर्भदेशे कुंडिनपुरे मान्धातृनृपः, मन्दोदरी राज्ञी, मदनदेवः पुत्रः । राज्ञा देवशर्मद्विभार्या रूपिण्याख्या सुरूपत्वादपहृता । तद्दुःखेन सोऽग्नि साधयित्वा व्यन्तरः । प्राग्र्भववैरेण पुरे सर्व दग्धुं लग्नः । सर्वे आर्ताः । राज्ञा बाह्यालीं गतेन सीमन्धरः केवली पृष्टः । तद्धेतुमूचे । राज्ञा स्वदारसन्तोषव्रतं गृहीतम् । अग्न्युपद्रवशान्त्युपायश्चायम् । मलयाद्रौ चन्दनवने पम्पासरसि सप्तोपवास (सै) जगज्यो ( ज्ज्यो ) तिर्नाम बिम्बमाराध्यात्र पुरे निवेश्यं पूज्यं च । तन्महिन्मा स दुष्टदेवः क्षयं गमी । तदवसरे व्याख्याश्रवणार्थागतविद्याधरैर्नृपस्तत्र नीतः । सर्वं तथा चक्रे शान्तिः ||३ जलणः ॥ वाराणस्यां श्रीऋषभसन्ताने श्रीपार्श्वस्य पूर्वजो वैरसेननृपः । पुत्री जरकारी । तस्यां गर्भस्थायां माता सर्पदष्टा । मान्त्रिकैरहीन् सन्तोष्य निर्विषीकृता । सर्वैर्वरदानम् । नागकुलं ते गर्भस्थपुत्र्याः पितृगृहं, नागेन्द्राः बान्धव: (वा) । सा जरत्कारऋषेर्दत्ता । अपराधेऽहं त्यक्षा(क्ष्या)मीत्युक्ता तेनोढा । अन्यदा सूर्यास्ते ऋषि सुप्तं सन्ध्यावन्दनाय साऽजागरयत् । स निद्राभङ्गादुष्टस्तां त्यक्त्वा वने गच्छि (च्छ) न् तया पृष्टः । मम आधारः कः ? तेनोक्तम् तवाधाने पुत्रोऽस्ति । स ते पितृगृहानन्ददो भावी । सा तत् श्रुत्वा नागलोक: (कं) पितृगृहं गता । जातः पुत्रः आस्तीकाख्यः । १६ वर्षो जातः वेदादिसर्वशास्त्रज्ञः । अत्रान्तरे पाण्डवसन्ताने अभिमन्युं (यु) पुत्रपरिक्षि पाठा : १. प्राग्वैरेण । २. व्योम्ना श्रव० । ३. काक्षः । Page #3 -------------------------------------------------------------------------- ________________ 63 राजा रणभुवनपुरे नैमित्तिकेन सर्पान्मृति(ति) श्रुत्वा एकस्तम्भधवलगृहस्थस्तक्षकेन बदरमध्ये भूत्वा प्रातर्नासाग्रे दष्टो मृतः । वलभीतो धन्वन्तरिर्वेद्यो वटपद्रसमीपे दन्तकरोटीग्रामे अन्धवटाधस्थे(धःस्थो) दृष्टः (ट)स्तक्षकेन द्विजरूपेण पश्चाद्गच्छता पृष्टः । कियतीति विषनिग्रहशक्तिः ? । स आह यावद् दृशा पश्यामीति । तक्षकेण वाक्छलेन स पृष्टौ दष्टः उपचारं कुर्वन् वारितो मृतः । परिक्षिनृपपदे जनमेजयो न्यस्तः । रोषात्सर्पहोमममण्डयदग्निशमद्विजपावा॑त् राज्ञो दृष्टौ एकनागकुलं हुतम् । नागा भीताः । जरकारी रोदितुं लग्ना । पुत्रेण पृष्टे उक्तं मम पितृकुलं नागलोकं जनमेजयो जहोति । त्वं च नागलोकरक्षाकरः पित्रोक्तोऽभूः । तत्श्रुत्वा आस्तीकस्तद्रक्षार्थं चलितः । तावता वातूलेनोत्पाद्य(ट्य) देवदारुवने ऋष'शृङ्गाद्रौ सिन्दूरशिखरे मन्दारादिपुष्पाचिंताऽमृतेशबिम्बाग्रे मुक्तः । खे गी: वरं वृणु, तेन वाक्सिद्धिर्मागिता । दत्ता नम्रः स उत्पाट्य(ट्य) सपीहा(सर्पहो)मवेद्यां मुक्तः । वेदान् बाढं बाढं पढति । सर्वे द्विजा उत्कर्णो (D) याज्ञिकमाहुरेष पूर्णमनोरथ(:) क्रियताम् । स पृष्टो मूलाहुतिं ययाचे । तावता मृतिभीत्या मूलाहुतिस्तक्षक: पलाय्येन्द्राग्रे वज्रपंजरिकायां सर्षपमात्रीभूय नष्टः । याज्ञिकेन ज्ञानेन ज्ञातम् । मंत्रं भणितुं लग्नः - भूतक्षकाय सेन्द्रायेति । मन्त्रान्तेऽष्टनागकुलवृतस्तक्षको भयद्रुतः खे आगतः । तावता पुनस्तेन मूलाहुतिर्मागिता नो चेच्छापेन वो भस्मीकुर्वे । तैीतैः सर्वे तेऽहय आस्तीकहस्तेऽपिता(:) । तेन वन्दनादिना तोषितैस्तस्य वरो . दत्तः । य इमां त्वन्नामाङ्कितां विद्यां स्मर्ता तस्य वर्षमस्माकमभी: । सा चेयम् । सपसर्प भद्रं ते दूरं गच्छ महाविषः(ष)। जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर:(र) ॥१॥ आस्तीकवचनं स्मृत्वा सर्पश्चेत्र निवर्तते । शतधा भिद्यते मूनि शंसवृक्षफलं यथा ॥ २ ॥ आस्तीकेनोरगैः सार्धं पुरा यः समयः कृतः । यदि स समय सत्यो न मां हिंसन्तु पन्नगाः ॥ इति नागकुलाभयदः श्रीपार्श्वः : ॥ ४ विसहरः ।। ऐरावते देशे धुन्धुमारनृपः । धवलादेवी । पुत्री कुन्तला:(ला) वने पुष्पावचयेन कोडित्वा श्रान्ता स्नातुं वाप्यां प्रविष्टा । तावता दुष्टव्यन्तरेण तदाभरपानि पाठां. १. ऋक्ष० । Page #4 -------------------------------------------------------------------------- ________________ 64 पालिस्थान्यपहृतानि । साऽपश्यंती पूच्चक्रे मुमूर्च्छ च । राज्ञा श्रुतं, बहूपक्रमेणा ऽपि नातं पदाद्यपि । पुत्र्या २१ उपवासाः कृताः । तावता खे विमानेन गच्छन् खेचरमिथुनं वार्तयत् श्रुतम् । वैतादये रथनूपुरे मणिचूडाऽर्च्यमानजगत्पालनाख्यबिम्बाऽऽगमेऽस्याः कार्यं सिध्यति । अत्रान्तरे तस्या मातुलः स मणिचूडो मिलनाय तत्रागतो नृपोपरोधात् तद्विम्बं तत्रानीय चैत्येऽमुचत् तदा आरात्रिकसमये तुष्टतदधिष्ठायकैः स व्यन्तरः शिरः स्थाभरणग्रन्थिबद्ध्वा भृशमारटंस्तत्रानीतः । प्रतिबोधितश्च ॥ ५ चौरः || वङ्गदेशे तामलिप्त्यां पुष्पशेखरनृपः । पुष्पवती राज्ञी । सोऽलसत्त्वान्मन्त्रिभिः कर्षितो वने रुलन् काष्टविक्रयेण जीवन् शमीमूलखनने विवरं दृष्ट्वा भूम्यां प्रविष्टो दूरं गतो भोगिपुरे गङ्गापुष्कराख्यतटाके देवगृहे पुराणपुरुषाख्यबिम्बं दृष्टवाऽऽनर्च । राज्यभ्रंशदूनस्य तस्योपवासत्रयान्ते देवैरजरामराख्यं पारिजातपुष्पं दत्तम् । यस्ते नमति न तस्येदं संमुखं क्षेप्यं शिरः पतिष्यतीत्युक्त्वा । तदा देवदत्तं देवप्रसादाख्यमश्वमारुह्य एकेन तर्जनेन स्वपुरे आगत्य सिंहासने निविष्टः । दुष्टान्प्रति पुष्पं मुक्तं शिरांसि दुलितानि प्रणताः सन्तः सज्जीभूताः राज्ञा मुक्ताः । स नृपो जिनधर्मी मृत्वा स्वर्ययौ । ६ अरिः ॥ अन्तर्वैदौ काश्यां त्रिशङ्कुनृपोऽन्यदा निशि वीरचर्यया भ्रमन् शूलिकाप्रोतमृतचौरयोस्तुम्बीद्वयं जीर्णं मिथो वददश्रृणोत् । एका हसत्येका रोदिति । आद्या हास्यहेतुं पृष्टाऽऽह । अस्मद्वधको राजा तृतीयेऽह्नि दुष्टदेवैर्मारयिष्यते । द्वितीया रोदनहेतुमाह । एतस्य जीवनोपायोऽस्ति । मैष तं ज्ञासीत् । अन्यया के उपाय इति पृष्टे साऽऽह - अमुकस्मशाने सप्तमातृदेवकुलाग्रे महापीठं, तदुपरि पूर्वदिशि पादुकायुगम् तदधस्ताम्रपत्रे खगामिनी विद्याऽस्ति । तद्बलान्मेरौ गत्वा जम्बूवृक्षमूलेन जम्बूदेवेनाऽर्च्यमानं संसारबोधाख्यबिम्बं यद्यत्राऽऽनीयार्चति तदा तद्देवैस्ते दुष्टव्यन्तरा दण्डैस्ताडिताः पलायन्ते । तत्श्रुत्वा राज्ञा सर्वं तथैव कृतम् । प्रातर्देवानां युद्धं लोकाः पश्यन्ति । दुष्टदेवा जिता उचुः । अद्यनवा अपि ग्रहा एकराशिस्थास्त्रिशङ्कुममारयिष्यन् यद्येनमुपायं नाऽकरिष्यत् । राजा धर्मी चिरं राज्यं स्वः ॥ ७ ग्रहाः ॥ कलिङ्गे काञ्चनपुरे पद्मनाभनृपः पद्मावती देवी । अन्यदा वने केवली पाठा. १. कमेण नातं । २. पुर्यागत्य । Page #5 -------------------------------------------------------------------------- ________________ 65 वंदित्वा गमनहेतुं पृष्टः प्राह । हस्तिभुवि नर्मदातटे विन्ध्याद्रिगहरे कुञ्जरवये १२ योजनमानस्तत्र भुवनत्रयतारणाख्यबिम्बम् । तत्तीर्थभूस्पर्शनार्थमागमामः । अन्यदा नृपो वन्येभैः क्रीडन् हस्ती ( स्ति) करे पतितः । तत्र नानागजोत्पत्तिवर्णना । तावताऽकालाब्दजलसिक्तभूगंधोन्मत्तगजकुलेनाक्रान्तो भयद्रुतस्तद्गुरुवचः स्मृत्वा कुञ्जरवटेऽधिरुह्य स्वामिन् ! मां रक्ष रक्षेति पूच्चक्रे । तावता हुङ्कारत्रयं निर्गतम् । तेन ते गजा ग्लानीभूतांगाः सर्वे नेशुः । नृपो वादुत्तीर्य जिनं ननाम । तदा देव एक: कृताञ्जलिर्जिनं स्तुवन्नृपमाह । वरं वृणु । राज्ञा तत्र तत्पार्थ्यात् पुरं निवेशितं, वटपरिसरे तत्र प्रासादे तं जिनमानर्च । मृत्वा १२ स्वर्गे अगात् ॥ ८ गजः ॥ कोसलायां साकेते जनवल्लभः कुटुम्बी क्षेत्रं कर्षन् जैनमुनिपाखें प्राप्तसम्यक्त्वः सहजासिद्धाख्यं बिम्बं पूज्यमिति मुनिनादिष्टः । अन्यदाऽपुत्रे नृपे मृते स पञ्चदिव्यैः पट्टे न्यस्तः । कोऽप्याज्ञां न मन्यते । सीमालेर्वेष्टिता पूः । नृपो व्याकुलः खे गच्छन्तं विद्यासागराख्यं चारणर्षि पप्रच्छ । स आह सहजसिद्धेश्वरं शरणं भज राजा तद्ध्यानं चक्रे । तावता साधनकूपात्वातोली धूमज्वालादिक्रमेण सुरकोटिसेव्यमानं सहजसिद्धेश्वरबिम्बमाविर्भूतं राज्ञाऽचितं महामहैः । ततो वैरिसैन्यं सत्यपुर(री) यश्रीवीररीत्या हतप्रहतं पलायितुं लग्नम् | अन्धा इव जाताः किमपि न पश्यन्ति । ततस्तमेव देवं शरणं श्रिता नानोपदामिः । स नृपो देवादेशान्मार्तण्डाख्योऽभूत् ॥ ९ रणभयं ॥ सौवीरे वीतभयपुरे वीरसेननृपः । इन्दुमती देवी | श्रीनिवासाख्यो दरिद्रः श्रेष्ठी घृतकुतपिकां वहन् मार्गे सायं देवकृतप्रासादे लक्ष्मीकान्ताख्यं बिम्बं दृष्टवा नत्वा स्वाज्येन दीपं कृत्वा पद्या तद्वतिं च कृत्वोपवासत्रयेणाऽऽराधयत् । तुष्टेन्द्रेण सोऽब्धतीरे मुक्तः । तत्र श्रमात्सुप्तं तं प्रथमकलोले श्रीरालिङ्गत् । द्वितीयकल्लोले गजा ( : ) । तृतीये अक्षयकोशः । तत उत्पाट्य स्वपुरे नीतस्तत्र राज्ञा राज्यं तस्य दत्तं स्वयं दीक्षा । तेन नव्यचैत्यं कृत्वा तत्र स जिनो यावज्जीवमार्चि अन्ते दीक्षया स्वः ||१० श्रीः ॥ मगधे राजगृहे नरकान्तनृपो रोगैरकिञ्चित्करः । अन्यदा गङ्गायां सायं स्नाने जलमानुषमिथुनं मिथो वार्तयद् अश्रृणोत् । नर आह प्रिये ! अस्य पुरस्येशो रोगार्तोऽरिभिर्मारियिष्यते । ततः तया कथं पेत्सीति पृष्ठे प्राह । नन्दीश्वरेऽष्टाहिकां कृत्वा वलमानसुरगणैर्जलकेलिं कुर्वद्भिरिदमूचे । पुनः साऽऽह कोऽपि Page #6 -------------------------------------------------------------------------- ________________ 66 जयविधिस्तैरुक्तः ? । स प्राह ओं ! परं मध्यरात्रे वक्ष्ये, अधुना जना(नाः) शृण्वन्ति । तावद्राजा सर:पालौ वटगह्वरे स्थितो निशीथे तदुक्ति सु(शु) श्राव । अस्य वटस्याधः पुरुषत्रयं खनने मणिरस्ति । तस्मिन्करेबद्धे खगमनशक्तिः स्यात् । तबलेन चंदनाचले कंकोलवनेऽग्निशृङ्गशिखरे सिन्दूरकुण्डान्तः सिद्धैरज़मानं जिनबिम्बं यदि गत्वा स्वपुरे नयति तदा नीरुग् जीवति । नृपस्तत्र गत्वा तल्लात्वा यावदेति तावत्पुरं सीमालैवेष्टितं पश्यति । बिम्बमुत्पाट्य स्वगृहे सिंहासने न्यस्य यावदचितं तावत्सीमाला भयद्रुता नष्टाः । राज्ञः पट्टाभिषेक: । श्राद्धो राज्यं स्वः क्रमात्सेत्स्यति ॥११ जयवादः ।। नक्तपालदेशे श्रीपुरे भीमसेननृपो गुरुं पप्रच्छ । अहं शत्रुञ्जये यात्रेच्छुरंतरा च भीः, किं कुर्वे ? गुरुराह श्रीक्षेमङ्कराख्यबिम्बं मानुषोत्तराद्रौ रत्नप्रस्थे त्रिभुवनस्वामिन्याऽय॑मानमस्ति । शासनदेवीमाराध्य तत्र गत्वा तस्यार्हतः प्रसादात् श्रीशत्रुञ्जययात्रामनोरथं पूरयेः तेन साराद्धा । क्षेमङ्कराख्यबिम्बमचितम् । लब्धो वरः । देवसान्निध्याज्जङ्गमवप्रेण गत्वा श्रीशत्रुञ्जययात्रा कृता । न केनाऽप्यध्वनि पराभूतः । राज्यान्तेऽन्तःकृत्केवली भूत्वा सिद्धः ॥ १२ मनोरथः ॥ नर्मदापाददेशे नंदपुर्यां चन्द्रशेखरनृपश्चन्द्रकान्तिदेवी । पापद्धिहतसिंहजीवव्यन्तरेण तस्य २१ पूर्वजा हताः । सोऽपि पापद्धिसक्तोऽन्यदा वने क्रीडन् विन्ध्याद्रिगह्वरे तोरणमालाख्यटूंके आम्रारामे उदुम्बरसरस्यखाते नर्मदाम्बुपूर्णे साजणगाजणाख्यमुदुम्बरवृक्षद्वयं एकतो मुनिं च दृष्टवाऽपृच्छत् । के यूयम् ? किमित्यत्र ? स प्राह- कर्णाटेशविकटोत्कटनृपसूर्घटोत्कटोऽहं शबरनाथाख्यबिम्बं नन्तुमत्रागाम् । ततः क्वास्तीति पृष्टे मुनिराह - अस्योदुम्बरस्य मध्ये । कुत इत्युक्ते मूलसम्बन्धमाह 'मुनिः । पुरा शबररूपिणा शिवेनात्र वृक्षमूले शूकरस्य शरो मुक्तो न लग्नः । स विस्मितः । शान्तोऽचिन्तयत् । नूनं क्वापि अर्हत्प्रतिमाऽस्तीति । तावत्प्रादुरासीत् सा। वन्दिता तेन हृष्टेन सता । शबररूपेश्वरेण स्थापित त्वात् शबरनाथ इति नाम तद्विम्बं अस्योदुम्बरस्य मध्ये बीडितमस्ति तेन गच्छता । तावत् नृपो भक्त्या आहदेव ! यदि भक्तोऽहं देहि मे दर्शनम् । प्रकटीभूत देवः तेन हृष्टेन तद्वाण्या पापद्धिस्त्यक्ता । श्राद्धः । क्रमान्मुनिर्भूत्वा सिंहजीवव्यन्तरं प्राबोधयत् । मृत्वा सर्वार्थसिद्धिं ययौ ॥१३ पापद्धिः ॥ पाठां. १. ऋषिः । २. स्थापितवान् । Page #7 -------------------------------------------------------------------------- ________________ 67 तिलङ्गे हंसपुरे नरवर्मनृपः । नरविभ्रमा राज्ञी । अन्यदा राजपाट्यां गतः क्वचितृषया जलपानाद् ग्रहिलोऽभूत् । बहुधाऽप्यसाध्यः । वैकल्येन भ्रमन् गङ्गातटे चिञ्चाशमी वृक्षयोरंतरे निविष्टोऽहिभेकयोर्युगपन्निर्गतयो: संलापं शृणोति । भेकः प्राह-जना ! हत हत एनं पापिनमहि, तावदहिराह भो ! भो ! कोप्यास्तेऽत्र यो भेकमिमं हत्वा अस्य निधि गृह्णाति । एवं क्षणं राटिं कृत्वा तावददृश्यौ । ततो राक्षसमिथुनं तदपि क्षणं युद्धवाऽदृश्यम् । ततः खेचरदम्पती खे आहतुः प्रिये गङ्गावेलास्नप्यमानचिञ्चावृक्षमूलाऽधः पुरुषोत्तमाख्यबिम्बं नत्वा तज्जलं यद्ययं पिबेत्तदाऽस्य वैकल्यं याति । ततो राज्ञा जनैः खानितम् । क्रमेण भूमिगृहस्थं सुरपुष्पाचितं तद्विम्बं प्रादुरासीत्तत्स्नानजलेन स सज्जश्चिरं राज्यम् । सौधर्मे स्वः ॥१४ वैकल्यम् ॥ गौडदेशे कोल्लापुरे नारायणनृपः नरदेवा राज्ञी । तस्यैकेन नास्तिकेन भूताकर्षणविद्या दत्ता । नृपः श्मशाने तां साधयितुं लग्नः । तावता विद्या प्रादुर्भूता । स तां दिव्यरूपां दृष्ट्वा व्यामूढः । विद्या कुपिता । स वैकल्येन भ्रमन् उज्जयिन्यां गजेन्द्रपदश्मशाने सिप्रातीरे सिद्धवटच्छायायां रामसागरमुनिं दृष्ट्वा ननाम । निशि मुनेः केवलज्ञानमुत्पन्नम् । तन्महोत्सवागतदेवैर्मुनिस्तत्स्वरूपं पृष्टः । प्राग्भवे जिनसेवकोऽयम् । ततो मण्डपदुर्गे निरञ्जनाख्यं बिम्बमानर्च । तदग्रे निराहार: षण्मास स्थितः । ततो लब्धे वरे संज्ञा जाता । बिम्बं स्वराज्ये नीतम् । नृपस्य पट्टाभिषेक: । औषधी कल्पवल्लीचिन्तामणिदिव्यास्त्राणि देवा ददुः । त्रिखण्डे [य]शो राज्यमन्ते स्वः ||१५ व्यामोहः || पाञ्चाले काम्पील्यपुरे ब्रह्मबन्धुर्नृपः । तारा देवी । क्षायिकसम्यक्त्वती । नगरनिद्र्धमनद्वारे दयासागरर्षिः कायोत्सर्गेण स्थितः । तत्प्लावनभिया पुरदेव्या पुरे वृष्टिर्निषिद्धा । मूढलोकैर्नैमित्तिकात् तत् ज्ञात्वा रुष्टैः सम्भूय स मुनिरेकलोष्टवधः कृतः । राज्ञाऽपि न निषिद्धम् । एका राज्ञी पश्चात्तापं गताः । सम्यग्दृग्देवैर्वृष्ट्या तत्पुरं प्लावितम् । राज्ञी गृहाग्रवटे चटिता । शीलसम्यक्त्वप्रभावादुद्गरिता । तदनु काबेरीनर्मदाक पिलाख्य नदीत्रयसङ्गमान्तरे स सिद्धवटः ख्यातः । ततो देव्या स्वस्थापिततारापुरे ताराविहारे स्वप्नादेशादादिरूपाख्यजिनबिम्बमिदं स्थापितम् । तद्वाधः स्खलनलब्धचिन्तामणिना द्रव्यव्ययश्चक्रे । प्रभावना च । क्रमात् सा तारादेवी तच्चैत्याधिष्ठायिका जाता । क्रमान्मुक्ति प्राप सा स्वस्थापिततारापुरे पाठ १. सा अद्ययावद बौद्धेषु । Page #8 -------------------------------------------------------------------------- ________________ 68 यावद्वौद्धेषु प्रसिद्धा । १६ उपसर्ग: । हस्तिपुरे हरिचन्द्रनृपः स्वप्ने देवेनोक्तः । प्रातर्बाह्याल्यां यस्ते मिलति तेन सह मैत्री कार्या । राजा बाह्याल्यां गतस्तृषार्त्तमेकं सत्पुरुषं भूपतितं तत्पार्श्वस्थसपर्याणाचं दृष्ट्वा तं सज्जीकृत्य मित्रं चक्रे । तावत्सैन्यागमे बंदिमुखाद्विराटदेशाधिपः प्रद्युम्ननृपः स ज्ञातः । प्रीत्या कियद्दिनीं तत्र स्थित्वा चलन् स आह हे हरिचन्द्र ! तवाहमनृणः कथं स्याम् ? परं झाडमण्डलदेशे रत्नपुरपार्श्वे गन्धमादनाद्रौ गजदन्तकुण्डसमीपे प्रासादे सर्वार्थसिद्धिनामजिनबिम्बं वन्दापयामि यद्येष्यसि । राजा राज्यं मन्त्रिषु न्यस्य तेनैव सहाऽचलत् । गतस्तत्र प्रत्यहं लक्षद्रव्यव्ययेन पूजां कुर्वन् षण्मास स्वराज्य इव स्थितः । देवैस्तुष्टैर्वरं वृण्वत्युक्ते स्वामिन् ! सम्यक्त्वं मच्चित्तान्मागादित्येवं वरममार्गयत् । पश्चादागतो राज्यं स्वं प्रपाल्य स्वः || १७ सम्यक्त्वम् ॥ हरिवर्षदेशेऽमरावत्यां जीमूतवाहननृपस्तडागखननलब्धपत्रानुसारेण रत्नकोशं लेभे । एवं वर्षं यावत्प्रत्यहम् । अन्यदा गोविन्दाख्यश्चारणर्षिः खानिस्थानं प्रदक्षिणयन् दृष्टः । निर्ग्रन्थानां सधनभूम्युपरि रागः किमेवमिति पृष्टश्वाह । राजत्रत्र भूमध्ये स्वयंभूनामा देवोऽस्ति । महातीर्थमिदं तेन प्रदक्षिणयामि । नृपेण देवः प्रकटीकृत्याचितः । अन्यदा मन्त्रिपुत्रो बुद्धिधनाख्योऽमारिरुजाऽचेतनो जातः । उपयाचिते देवस्य दत्ते नीरुक् । किमीदृशं दुष्कर्म तेन प्राकृतमिति चिन्तातुरे नृपे खे गीः । अयं मन्त्रिपुत्रः प्राग्भवे हालिकोऽभूत् । तदा दंडाग्रेण एकमलसकं ज्ञात्वा क्रीडया हतम् । तत्कर्मणाऽस्य रोगोऽयम् । तत् श्रुत्वा नृपेण हिंसानियमो गृहीतः प्राणैरपि अभयदानं देयमिति च । ततो नागजीवकृते स्वप्राणा दत्ता जीमूतवाहनेन इति लोकेऽपि श्रूयते ॥ १८ अमारिरुग् ॥ I सन्दर्भदेशे नन्दिपुरे हरिदेवद्विजेनाऽश्वमेघः कृतः । सोऽश्वी मृत्वा गौः । द्विजो मृत्वाऽन्त्यजः । तेन सा गौर्हता । तन्मांसादनात् सोऽपि मृतः । शुभलेश्यावशाद्वीजउरदेशे महेत्पुरे कृष्णमहेन्द्राख्यो नृपोऽभूत् । गोजीवो मन्त्री शतजीवनामा । मिथो द्वेषः । अन्यदा कस्मिंश्चिच्छले राज्ञा मन्त्री शूलायां दत्तः । पुरे चोदद्दुष्टं अन्योऽप्यन्यायी एवं फलं लब्धा । स मन्त्रिजीवो व्यन्तरो द्विष्टः । पुरलोकान् खादितुं लग्नः । मान्त्रिकैर्बलेन वाचा बद्धः । प्रत्यहमेकैकमेवाऽत्ति । अन्यदाऽवधिज्ञानी सर्वेश्वरमुनिस्तद्धेतु: पृष्टः प्राह प्राग्भवम् । प्रबुद्धो नृपो व्यन्तरश्च । Page #9 -------------------------------------------------------------------------- ________________ 69 तेन पूर्जनानां मिध्यादुःकृतं दत्तम् । अत्रान्तरे मुनेः केवलमुत्पेदे। भूतानन्दाख्यव्यन्तरेण कथं मे निष्पापता भाविनीति सपश्चात्तापं पृष्टे मुनिराह । सर्वपापापहाराख्यं जिनबिम्बं दुष्टसुरैर्गृहीतम् । महाकुरलदेशे मानससरोऽन्ते कालकूटाद्री मदनोन्मादनकुण्डतीरेऽशोकवृक्षाऽधोऽस्ति । तद्विम्बं बलेनानीयाऽर्चय । ततोऽनेकदेवकोटिवृतः स तत्र ययौ । अत्रान्तरे बाहुबलिनाम्ना देवेन तद्विम्बमाक्रान्तमस्ति । स च परस्त्रीलम्पटो देवस्य तादृग् भक्तिं न करोति । तं युद्धे जित्वा तद्विम्बं समहं स्वस्थाने निनाय । औत्सुक्याद्देवपादुके तत्रैव विस्मृतेऽद्यापि सर्वपापापहारपादुकायुगं तत्र देशेऽस्ति दिव्यादिकार्ये प्रसिद्धम् । नृपव्यन्तरौ श्राद्धौ सुगति जग्मतुः ॥१९ पापम् ।। अवन्त्यां त्रिविक्रमनृपसूः शार्दूलाख्यो महाव्यसनी । वर्णनम् । राज्ञा कर्षितो देशान्तरे भ्रमन् मलयाद्रौ हंससरसि ‘जलं पीत्वा विश्रान्तः । तावन्मृगीद्वयं कुतोऽप्यागत्य तेन सह क्रीडितुं लग्नम् । स प्राह - यद्येवं रमणीद्वयं क्रीडति तदा भव्यम् । तावत्तद्गतम् । अग्रे भुवि विवरं दृष्ट्वा वर्णना । भूमध्ये तत्र तरुणीद्वयं मृगीवत् क्रीडति । आह च भो व्यसनिन् यत्त्वया प्रार्थितं तल्लब्धम् । चिरं क्रीडया कदर्थितो भुक्तः । अग्रेऽजगरेण गिल्यमानो नंष्ट्वा वृक्षमारूढः । चिरादुत्तीर्णोऽग्रे हस्तिना रुद्धः । हस्त्यपि सिंहभयागतः । सिंहोऽपि यावत्तं खादति तावत् स आहभो मातुल ! मा मां खाद । तेन मुक्तः । उक्तश्च । एतद्विरिशृङ्गे गच्छ । स गतो यावत्तत्र न किञ्चित्पश्यति तावन्मन्युना उल्लंबितुं लग्नः । केनचिन्मुनिना निषिद्धः । प्राह-किमिति निषेध यसि ? जीवतो मे कि कोऽपि राज्यं दाता ? मुनिराहओम् । कस्तीत्युक्ते मुनिराह काञ्चनतोरणे चैत्ये देवाधिदेवाख्यबिम्बं ते राज्यं दास्यति । याहि पथाऽनेन । स तत्र गत्वा जिनं ननाम | ३२ उपवासैर्लब्धवरः उत्पाट्यावन्त्यां त्रिविक्रमनृपे स्वर्गते पट्टाभिषिक्तः । देवैर्नरशार्दूलनाम दत्तम् । तद्विम्बं तत्रानीयानर्च । राजा मृत्वा माहेन्द्रे सुरोऽभूत् ॥२० राज्यम् ।। । काश्मीरे उत्पलपट्टपुरे नरवाहननृपवनमालासूः मेघरथो दौर्भाग्यी । शतवारं मेलितोऽपि विवाहं न मिलति । स उद्वेगान्मृत्यै महारण्ये भीमभीषणाख्याद्रिमारूढो यावज्झम्पांदत्ते तावद् देवेन निषिद्धः । स शब्दानुसारादागत्यं दैवतं प्राह-कि निषिद्धोऽहं मृतेः ? दास्यसि कि मदिष्टम् ? । स आह - एतत् गिरिशृङ्गचैत्यस्थ: प्रभावसागराख्यदेवो दास्यति । तत्र गत्वा तं सिषेवे । लब्धपरकायप्रवेशविद्यः पाठां. १. अत्र मध्ये। Page #10 -------------------------------------------------------------------------- ________________ 70 सप्ताह तत्र स्थितः । तावता गोडदेशे चतुरपुराद्नंगाधरनृपो विश्वविभ्रमाख्यां महाराष्ट्रदेशेशतैलपदेवपुत्रीं परिणेतुं चलितः । तद्गिरेरध आगतस्तावन्मृतः । मेघरथस्तत्तनुं प्रविश्य स्वतनुं जिनाग्रे देवानां भलापयित्वा कन्यां परिणीय चतुरपुरे गतः । तद्राज्यं स्वं चक्रे । पुनः प्रभावसागरदेवं नत्वा मेघरथदेहं प्रविश्य गङ्गाधरतनुं तत्र मुक्त्वा स्वपुरं गतस्तत्र पित्रा राज्यं दत्तम् । ३२ कन्याश्च नृपैर्दत्ताः । पृथ्वीं जिनमण्डिताञ्चक्रे ||२१ परकायप्रवेशः । सौराष्ट्रे उषामण्डले सुमित्रनृपसुमित्रासूर्म घोषो महादुष्टस्तेन लोक उद्वेजितो राज्ञे व्यजिज्ञपत् । तेन स आकार्य निर्विषयीकृतो गतोऽरण्ये तृषार्तो हंसमिथुनेन स्वस्थीकृतः । बृहत्त्वात् तत्पक्षलग्नो भ्रमति । अन्यदाऽध्वनि गच्छन् हंसः पृष्टः । कुत्र याथ । स आह । यत्प्रभावाद्वयं नृभाषां वच्मः तं देवं नन्तुं नीलगिरौ नीलवने कुमारसरसि स्थितम् तत्र गत्वा जिनमानचुः(च) । हंसः सर्वमपूरयत् । हंसौ तत्र स्थितौ । स च ६४ उपवासैर्वरं लेभे - राज्यं लभस्व इति । हंसी(स)बलेन गतः स्वं पुरम् । पित्रा पट्टेऽभिषिक्तः । हंसमिथुनं तत्रैव स्थापितम् । प्रत्यहं हंसमारुह्य तं जिनं नन्तुं खे गच्छन् हंससेन इति ख्यातः । कमात्तद्वयं मृत्वा तस्य पुत्रौ जातौ । नृपोवर्षशतमेवं राज्यं कृत्वा क्रमाज्ज्येष्ठपुत्रे तन्यस्य स्वः ॥२२।। खगमनम् ।। जालन्धरदेशे चन्द्रवटपुरे मेघनादनृपः । रुक्मिणी देवी । तस्य मार्यमाणचौरेणापितं विद्याद्वयं सिद्धमस्ति । अन्यदा नद्यां कीडतः स्त्रीशबमागतम् । सा निविषीकृत्य परिणीता । तया सह गत्वा नरसुन्दरनृपस्तत्पिता तेन वेष्टितः । रणे बद्धस्तेन राज्यं दत्तं स्वयं संयमं प्रपाल्य मोक्षे । अन्यदा मेघनादोऽश्वकर्षितोऽरण्यानी भ्रमन् तापसैर्दशितं सितकूपाद्रौ वज्रशृङ्गे दुग्धोदधिसरसि बदरि( री)वने पिचुपिताबकुण्डपार्वे कृपाभंडाराख्यदेवं वन्दे ३० उपवासैलब्धवरो विमानेन खगामीति जातः । गतः स्वं पुरम् । प्रत्यहं विमानेन जिनं नन्तुमेति । एवं वर्षलक्षम् । मृत्वा माहेन्द्रः ॥ २३ विमानम् ॥ हीमउरदेशे हीरपुरे हरिदत्तनृपः । हरिप्रिया देवी । अन्यदा निशि वने बालां रुदतीं श्रुत्वा खड्गसखस्तत्र गतः । सा पृष्टाऽऽह । अहं कोकंणदेशेशकुमारेश्वरपुत्री सौभाग्यमञ्जरी नाम । गौडदेशेशगदाधरेण बलादुद्वोढुमत्रानीता । अद्य स सिद्धविद्यः सायं मां परिणेष्यति । अहं च प्राग् हरिदत्तानुरक्ताऽभूवम् । ततः स विद्या पाठां. १. सर्वमयूरवत् । Page #11 -------------------------------------------------------------------------- ________________ 71 साधयँस्तेन रणे जितः । सा तत्समक्षमुदूढा । तौ दम्पती गतौ स्वगृहम् । अन्यदा नृपश्चन्द्रशालातः खेचर्याऽपहृत्य वैताढ्ये नागपुरे नीतस्तत्र विद्युन्मालिना विद्याः प्रदाय जामाता कृतः । नैमित्तिकवचसाऽन्यदा स दक्षिणश्रेण्यां गगनपुरेशगगनचूडं जेतुं प्रहितस्तं जित्वा तत्पुत्री परिणीय करमोचने प्रज्ञप्ती प्राप्य पश्चादागतः । ततः स्त्रीद्वययुतो विमानेन स्वं पुरं गतः । अन्यदा तस्य राज्ये जलशोषोऽग्निनाशश्चाऽभूतां, कल्पान्त इव संवृतः । ततः कुलदेवीगिरा कुरुक्षेत्रे चित्रकूटाद्रौ मरकतशृङ्गे कमलासरसि नागराजकुण्डे स्थितं परमेश्वराख्यं बिम्बमानीय तत्स्नात्राम्बुना सर्व स्वस्थीचक्रे । इत्थं वर्षलक्षं स जिनमचियित्वा मृतः स्वः ॥ २४ उत्पातशान्तिः ।। ___ हस्तिनागपुरे जितशत्रुनृपः । जयकान्तादेवी । पुरमुख्यः कार्तिकश्रेष्ठी । तन्मित्रं गङ्गदत्तः । श्रीसुव्रतजिनश्राद्धौ तौ वैराग्यधसै । अन्यदा सुव्रतेशपाā गङ्गदत्तेन दीक्षाऽऽत्ता । कार्तिकस्तु तेन, “श्रेष्ठिन् ! बंधे गिहवासे मुक्खे परियाए" इत्यादिना बहुबोधितोऽपि चारित्रमोहनीयोदयात् न सार्धं दीक्षां ललौ । अन्यदा कोष्टिकभिक्षुर्गेरिकाख्यस्तत्रागतो राज्ञा पारणाय निमन्त्रितः । श्रेष्ठिना नृपवचसा परिवेषितमित्यादि प्रसिद्धम् । तद्वैराग्यात् १००८ श्रेष्ठियुतः स दीक्षां लात्वा १२ वर्षे द्वादशाङ्गपाठी मृत्वा सौधर्मेन्द्रः । तपस्वी तद्वाहनमैरावणः । स मन्युतप्तः शक्रेण प्राग्भवकथनात्सुस्थीकृतः । शक्रेण प्राग्भवे सुखगर्भाख्यदेवालये संस्थाप्य परमेष्ठिनामेदं बिम्बं त्रिकालमर्चता शतं श्राद्धप्रतिमाः कृताः आसन् । तत्स्मृत्वा तदा नागपुरस्थं तत् परमेष्ठिबिम्बमुत्पाट्य स्वसभायां मुक्त्वा देवैः संभूयाऽकारणवत्सल इति कृतनामानं तं ११ लक्षवर्षाणि शक्रः पूजयामास ॥ २५ इन्द्रः ॥ । श्रीरामे दण्डकारण्ये गते सीताया जिनपूजाहर्षपूत्र्यै मातलिसारथिसनाथे रथे प्रस्थापितस्तत्र तया ७ मासान् ९ दिनांश्चाचितः । अन्यदाऽपहरणे भाविनि सीतायाऽचिन्ति । पुष्पाद्यभावादत्र स्वामिनः पूजने प्रत्युताऽऽशातना । ततः स्वामी स्वर्गे प्रेषितः । ततः सीताऽपहारोऽजनि इत्यादि रामचरितं प्रसिद्धम् ।। २६ श्रीरामः ॥ . जरासंधभिया यादवा द्वारिकायां गत्वाऽस्थुः । अन्यदाऽरण्येजरासन्धेन कृष्णसैन्यं जरयोपद्रुतम् । श्रीनेमिर्हरिणा विज्ञप्तः प्राह । ३ उपवासैः शक्रमाराध्य तद्विम्बं याचस्व । तत्स्नात्राम्बुना सर्वो नीरुग् भावी । हरिणा तथाकृते Page #12 -------------------------------------------------------------------------- ________________ त्रिभुवनतिलकाख्यं तद्विम्बं रथस्थं मातलिना शक्रः प्रापयत् । सर्वं सुस्थीभूतम् । बिम्बं चानीय झंझुमित्रस्य पाटके मुक्तम् । ततस्तद्ग्रामस्य झंझूवाड़ानामा महातीर्थं जातम् । रणे निवृत्ते पुनस्तद्विम्बं हरिणा द्वारिकायां नीतं ७०० वर्षाणि पूजितम् । मूलासनं तत्रैव स्थितम् । तदनु यात्रिकाणामभिग्रहा मूलासने एव पूर्यन्ते । तत्रापि मनीषिताप्तिः । तत्रापि कृष्णः पुनः पुनः यात्रार्थमेति । तेन तस्यादित्यावतारः मूलथाणमिति च नाम्नी । कृष्णेन तत्र मज्जनार्थं झीलानंदकुण्डं कारितं साधिष्ठायकम् । तदम्बु सर्वेषां गात्रे गलसमं जायते । एवं झंझूवाडा- मूलथाण - झोलानंदेति तीर्थत्रयं कालेन मिथ्यात्वगतम् ॥२७ श्रीकृष्णः ।। द्वारिकायां दग्धायां जिनं निरुपद्रवं दृष्ट्वा विस्मितो वरुणः पश्चिमदिग्पाल: स्वस्थाने नीत्वाऽऽनर्च हट्टकेश्वरनाम । तत्र तक्षकेण ८० सहस्रवर्षाणि, पद्मावत्या ७० वर्षसहस्राणि, लवणसमुद्रेशसुस्थितदेवेन ६० वर्षसहस्राणि चर्चितः स्वस्वस्थाने नीत्वा एवं सर्वेषां पातालवासिनां देवतात्रसर इव जज्ञे ।। २८ वरुणादयः ।। __ श्रीपार्श्वकुमारेण कमठपञ्चाग्निकाष्ठादहिर्जीवन् कर्षितो नमस्कारे दत्ते धरणेन्द्रो जातस्तेन पार्श्वनाथ-इतिनाम्ना पाताले तद्विम्बमर्चितम् । यदा कमठेन प्राग् - वैराद्दीक्षास्थो जिन उपद्रोतुमारेभे तदाऽवधिना प्राप्तधरणेन्द्रेण पार्श्वनाम्ना तुष्टेन सानिध्यं कृतं कमठोऽपि प्रबुद्धः । संघस्य प्रत्ययानपूरयत् ।। २९ कमठः ।। कान्त्यां धनेश्वरश्रेष्ठी सागरदत्तापराख्यः । ५०० वहनान्यापूर्याऽब्धियात्रां कृत्वा वलमानः समुद्रमध्यं गतः तावद्विषमवातोल्लालितानि वहनानि गिरिद्वयान्तरावर्ते पतितानि । षण्मास्यां खे गीः । अप्रतिमल्ाख्यं श्रीपार्श्वबिम्बं इत: स्थानात्कान्त्यां नय यथा तवेष्टाप्ति: स्यात् । श्रेष्ठ्याह -- स्वामिन् क्व तत्स्थानं न वेद्मि । तावता समुद्रजलोपरि यक्षकर्दमपुटी निर्गता । खे गीः -श्व एनां स्वहस्तेनाब्धौ मुञ्च । यत्रेयं पतति तत्राहमस्मि । ततस्तथाकृते लब्धम् । आनीतं बिम्बम् । वाहनानि मार्गे पेतुः । सुवायुना कान्त्यां प्राप्तः । श्रेष्ठी स काञ्चनतारणं चैत्यं कारयित्वाऽऽनर्च । तस्याऽपुत्रिणः पुत्रोऽभूत् कुलमण्डनाख्यः । तस्य वर्धापनके दीयमाने खे गीः । भोः भोः त्वयाऽहं भव्यं रक्षणीयः । तदनु तत्राङ्गारक्षाः प्रतीहाराश्च कृताः ॥३० वाहनानि ॥ मालवके सारङ्गपुरे अजयपालः क्षत्रियः । जैत्र श्रीसूः सिंहस्वप्नसूचित: पुत्रः स भृशं धीरोद्धतो गजसिंहादिभिः समं क्रीडति । पित्रा नृपभीतेन गृहात्कर्षितः । Page #13 -------------------------------------------------------------------------- ________________ पराभूत्या कणयरीपापाचे (कनकगिरिपावें ? ) योगी जातः । गुरुर्गुणें रञ्जितः । अन्यदा परीक्षार्थं गुरुणा ५०० शिष्या आज्ञप्ताः । भो ! वटमेकं समूलमानयत । सकृत् नागार्जुनाख्यो वटबीजमानीयाऽऽपयत् । शषैः संभूय समूलो वर एकश्छित्त्वाऽऽनीतः । तुष्टो गुरुनांगार्जुनापरि स्वचित्तोपलक्षणात् 1 अन्यदा शाका) वेश्यागृहे प्रहितः । रम्यं किमपि शाकमानीयाऽपितम् । गुरुहृष्टः प्राह भव्यमिदं परं स्तोकम् । स आह पुनरानयामि । गतः । याचिता वेश्या पुनरिदं देहि मदरो रोचते ! सा स्मित्वाऽऽह - रम्यं याचितं किं लभ्यते ? स आह - ओं, तहि मह्यं स्वचक्षुरेकं देहि । तेनोत्खाय दत्तं, तया विस्मितया शाकं दत्तम् । तेन च गुरवे । गुरुर्वस्त्रादिरक्तातं दृष्ट्वा निबन्धेन पप्रच्छ । तेन सम्यगुक्तेऽश्रद्दधानेन गुरुणा द्वितीयं चक्षुर्याचितं , तेन सात्त्विकेन तत्क्षणं दत्तम् । ततः सपश्चात्तापेन गुरुणा सोऽन्धो गिरिनाराद्रौ मक्तः । तत्राऽद्यापि कणयरीपामठी प्रसिद्धा । स तत्र तिष्ठन योगाभ्यासादिव्यनेत्रोऽभूत् । अन्यदा श्रीपादलिप्ताचार्यः पादलेपविद्यया पञ्चतीर्थी सदा नमस्कुर्वन् रैवतमागतस्तेन दृष्ट्वा ववन्दे । विनयेनाऽऽवजितः । पादक्षालनजलन १०७ औषधेषु ज्ञातेषु खण्डितविद्यया पतनोत्पतनानि कुर्कुट इव कुर्वन् गुरुणा षाष्टिकतंदुलजलाम्नाये सिद्धखगामिलेपो जातः । सोऽन्यदा खे भ्रमन् ईशानदिशि हंसरसाचेलदेशे हंसकूटपुरे तिंदुसकवनेऽमरवीरगुफायां चिर्पटनाथं रससिद्धिधूमवेधाम्नायार्थं सिषेवे । येन चिपिटनाथेन एकचिपिटीमात्रकल्केन हंसशेखरनृपस्य दृषत्काष्ठताम्रादिसप्तमण्डपाः १२ योजनमानाः कौतुकेन हैमाः कृताः । स १२ वर्षसेवया तुष्टस्तस्य रसविद्यां ददौ । तेन मयूराद्रौ ३२ वारान् रसः साधितः परं स्त्यानः कथमपि न स्यात् मण्ड एव स्यात् । स खिन्नः पादलिप्तं पप्रच्छ । रसस्त्यानतोपायं तैरूचे । कान्त्यां धनेश्वराऽर्यश्रीपार्थाऽग्रे महीअडदेशे पुरग्रामसमीपे सेड़ीनदीतीरे रसस्ते सेत्स्यति । स खगामी हृत्वा ततस्तबिम्बं आनीय तत्र मुमोच । पूर्वदेशशमकूआणापत्न्या सौभाग्यमञ्जर्या पद्मिन्या हेमरससिद्धौ औषधपीषणं कृतम् । क्षारान्नमद्येति वचसा रससिद्धिस्तया ज्ञाता । स्वपुत्रवीरघोषवीरकान्तयोापिता। ताभ्यां रसलोभात्स मारितोऽहितले कुश प्रहारेण । तेनापि पतता पादप्रहारेण त्रयो रसकुम्भा भग्नाः । तेन रसेन भूमध्यगतेन आरासनग्रामे अंबाविखानी निर्गतेन सप्तधातुखातयः कृताः । अष्टमी आरासनीयदृषत्खानिः । रसस्योद्गारवातेन किञ्चिद्वेधात् ब्रह्माणग्रामे किञ्चित्कर्बुरिता दृषत्खानिर्जज्ञे । हेमरसस्तम्भनात् श्रीपार्श्वस्य Page #14 -------------------------------------------------------------------------- ________________ 74 स्तम्भननाम । नव्य चैत्ये पूज्यते । तत्र स्तम्भनकग्रामो जातः ॥ ३१ रससिद्धिः ॥ श्रीवर्धमानसूरयो वढवाणे गताः । रात्रौ स्वप्नः प्रातरेकः कार्यटिकः प्रहरैकसमये समेति । स प्रतिबोध्य शिष्यः कार्यः । कार्पटिकस्याऽपि स्वप्नः । अरे अत्र किमर्थ गच्छन्नसि ! हं सोमेश्वरः श्वेताम्बर श्रीवर्धमानसूरिशरीरेऽस्मि । त्वं तत्र गच्छ । तद्दर्शने ते यात्रा नाविनीति । तेन तथाकृतम् । प्रतिबुद्धो दीक्षितः । स जिनेश्वरसूरिर्जातः । तच्छिष्यः श्रीअभयदेवसूरिर्नवाङ्गवृत्तिं चक्रे । सोऽन्यदा कुष्टी जज्ञे । खेदादनशनेच्छुर्देवतयादिष्टः । मैवं कुरु, अद्यापि त्वं महाप्रभावको भात्री । अन्यदा श्रीपद्मावत्यादेशात् स्तम्भनकग्रामे ससङ्घः सुखासनासीनोऽग्रतः पृष्ठतश्च धरणेन्द्रक्षेत्रपालाभ्यां दत्तस्कन्धः खंषपलाशमूलस्थं श्रीपार्श्व ३ वृत्तस्तुत्या प्रकटीचक्रे । संवत् ११३१ वर्षे । श्री अभयदेवसूरिर्दिव्यदेहोऽजनि । तदा निरन्तरं पूजा || ३२ नवांगदायी । T इति श्रीमेरुतुङ्गसूरिप्रकटिताः श्रीस्तम्भनस्य ३२ प्रबन्धाः || भूमिं नाभिसुते पवित्रयति यः षट्खण्डयात्रागतः श्रीनाभेयसुतस्य कुक्षिरजरजः स्नात्राम्भसा संहतिम् । चक्रे पंचशतीधनुर्मिततनोः कैलाशशैलाहतो विश्वानन्दनसंज्ञकः स कुरुतात् श्रीस्तम्भनेशः श्रियम् ॥ १ द्वैतीयै (यी) कजिनेन्द्रबान्धवसुतैरष्टापदेखातिका पातात् शेषरुषा मृतेस्त्रिपथगातौये प्लुतिं कुर्वति 1 तुष्टे जहनुसुताय नीरहरणोपायं तदाऽऽख्यातवान् श्री विश्वेश्वरसंज्ञकः स कुरुतात् श्री स्तम्भनेशः श्रियम् ॥ मांधात्रा देवशर्मद्विजवरवनितापाहता तद्वियोगाद् विप्रो मृत्वाऽग्निदेवः समभवदनलोपद्रवं तत्र कुर्वन् ॥ रुद्धो यत्स्त्रावतोयान्मलयगिरिताकाहृतस्तेन राज्ञा । विश्वज्योतिर्जनानां दुरितभरहरः स्तम्भनेशः स भूयात् ॥३ यज्ञे जन्मेजयस्याहुतिगतमखिलं नागलोकं विमृश्याSsस्तीकस्तन्मोचनायाऽचलदनिल भगेत्पाटितो र ( ऋ) क्षशृङ्गम् । नीतस्तत्रामृतेशाह्वयजिनवरतो मोचयन्नागवर्ग. Page #15 -------------------------------------------------------------------------- ________________ 75 तत्सान्निध्यं जिनेन्द्रो वितरतु स सतां वाञ्छितं स्तम्भनेशः / / 4 क्रीडारामं भ्रमन्ती कुसुमचयकृते कुन्तला राजपुत्री यावद्वापी प्रविष्टा तनुशुचिविधये मण्डनं तत्सुरेण / आत्तं यस्यैव भत्क्या पुनरपि वलितं तत्पिताऽपि प्रबुद्ध: श्रीपार्श्वः सप्रभावो वितरतु स सतां वांछितं स्तम्भनेशः // 5 इति श्रीमेरुतुङ्गसूरिविरचिते प्रकटितात(टित)द्वात्रिंशत्प्रबन्धानां किञ्चिदुद्धारः //