________________
63
राजा रणभुवनपुरे नैमित्तिकेन सर्पान्मृति(ति) श्रुत्वा एकस्तम्भधवलगृहस्थस्तक्षकेन बदरमध्ये भूत्वा प्रातर्नासाग्रे दष्टो मृतः । वलभीतो धन्वन्तरिर्वेद्यो वटपद्रसमीपे दन्तकरोटीग्रामे अन्धवटाधस्थे(धःस्थो) दृष्टः (ट)स्तक्षकेन द्विजरूपेण पश्चाद्गच्छता पृष्टः । कियतीति विषनिग्रहशक्तिः ? । स आह यावद् दृशा पश्यामीति । तक्षकेण वाक्छलेन स पृष्टौ दष्टः उपचारं कुर्वन् वारितो मृतः । परिक्षिनृपपदे जनमेजयो न्यस्तः । रोषात्सर्पहोमममण्डयदग्निशमद्विजपावा॑त् राज्ञो दृष्टौ एकनागकुलं हुतम् । नागा भीताः । जरकारी रोदितुं लग्ना । पुत्रेण पृष्टे उक्तं मम पितृकुलं नागलोकं जनमेजयो जहोति । त्वं च नागलोकरक्षाकरः पित्रोक्तोऽभूः । तत्श्रुत्वा आस्तीकस्तद्रक्षार्थं चलितः । तावता वातूलेनोत्पाद्य(ट्य) देवदारुवने ऋष'शृङ्गाद्रौ सिन्दूरशिखरे मन्दारादिपुष्पाचिंताऽमृतेशबिम्बाग्रे मुक्तः । खे गी: वरं वृणु, तेन वाक्सिद्धिर्मागिता । दत्ता नम्रः स उत्पाट्य(ट्य) सपीहा(सर्पहो)मवेद्यां मुक्तः । वेदान् बाढं बाढं पढति । सर्वे द्विजा उत्कर्णो (D) याज्ञिकमाहुरेष पूर्णमनोरथ(:) क्रियताम् । स पृष्टो मूलाहुतिं ययाचे । तावता मृतिभीत्या मूलाहुतिस्तक्षक: पलाय्येन्द्राग्रे वज्रपंजरिकायां सर्षपमात्रीभूय नष्टः । याज्ञिकेन ज्ञानेन ज्ञातम् । मंत्रं भणितुं लग्नः - भूतक्षकाय सेन्द्रायेति । मन्त्रान्तेऽष्टनागकुलवृतस्तक्षको भयद्रुतः खे आगतः । तावता पुनस्तेन मूलाहुतिर्मागिता नो चेच्छापेन वो भस्मीकुर्वे । तैीतैः सर्वे तेऽहय आस्तीकहस्तेऽपिता(:) । तेन वन्दनादिना तोषितैस्तस्य वरो . दत्तः । य इमां त्वन्नामाङ्कितां विद्यां स्मर्ता तस्य वर्षमस्माकमभी: । सा चेयम् ।
सपसर्प भद्रं ते दूरं गच्छ महाविषः(ष)। जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर:(र) ॥१॥ आस्तीकवचनं स्मृत्वा सर्पश्चेत्र निवर्तते । शतधा भिद्यते मूनि शंसवृक्षफलं यथा ॥ २ ॥ आस्तीकेनोरगैः सार्धं पुरा यः समयः कृतः । यदि स समय सत्यो न मां हिंसन्तु पन्नगाः ॥ इति नागकुलाभयदः श्रीपार्श्वः : ॥ ४ विसहरः ।।
ऐरावते देशे धुन्धुमारनृपः । धवलादेवी । पुत्री कुन्तला:(ला) वने पुष्पावचयेन कोडित्वा श्रान्ता स्नातुं वाप्यां प्रविष्टा । तावता दुष्टव्यन्तरेण तदाभरपानि पाठां. १. ऋक्ष० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org