________________
पराभूत्या कणयरीपापाचे (कनकगिरिपावें ? ) योगी जातः । गुरुर्गुणें रञ्जितः । अन्यदा परीक्षार्थं गुरुणा ५०० शिष्या आज्ञप्ताः । भो ! वटमेकं समूलमानयत । सकृत् नागार्जुनाख्यो वटबीजमानीयाऽऽपयत् । शषैः संभूय समूलो वर एकश्छित्त्वाऽऽनीतः । तुष्टो गुरुनांगार्जुनापरि स्वचित्तोपलक्षणात् 1 अन्यदा शाका) वेश्यागृहे प्रहितः । रम्यं किमपि शाकमानीयाऽपितम् । गुरुहृष्टः प्राह भव्यमिदं परं स्तोकम् । स आह पुनरानयामि । गतः । याचिता वेश्या पुनरिदं देहि मदरो रोचते ! सा स्मित्वाऽऽह - रम्यं याचितं किं लभ्यते ? स आह - ओं, तहि मह्यं स्वचक्षुरेकं देहि । तेनोत्खाय दत्तं, तया विस्मितया शाकं दत्तम् । तेन च गुरवे । गुरुर्वस्त्रादिरक्तातं दृष्ट्वा निबन्धेन पप्रच्छ । तेन सम्यगुक्तेऽश्रद्दधानेन गुरुणा द्वितीयं चक्षुर्याचितं , तेन सात्त्विकेन तत्क्षणं दत्तम् । ततः सपश्चात्तापेन गुरुणा सोऽन्धो गिरिनाराद्रौ मक्तः । तत्राऽद्यापि कणयरीपामठी प्रसिद्धा । स तत्र तिष्ठन योगाभ्यासादिव्यनेत्रोऽभूत् । अन्यदा श्रीपादलिप्ताचार्यः पादलेपविद्यया पञ्चतीर्थी सदा नमस्कुर्वन् रैवतमागतस्तेन दृष्ट्वा ववन्दे । विनयेनाऽऽवजितः । पादक्षालनजलन १०७ औषधेषु ज्ञातेषु खण्डितविद्यया पतनोत्पतनानि कुर्कुट इव कुर्वन् गुरुणा षाष्टिकतंदुलजलाम्नाये सिद्धखगामिलेपो जातः । सोऽन्यदा खे भ्रमन् ईशानदिशि हंसरसाचेलदेशे हंसकूटपुरे तिंदुसकवनेऽमरवीरगुफायां चिर्पटनाथं रससिद्धिधूमवेधाम्नायार्थं सिषेवे । येन चिपिटनाथेन एकचिपिटीमात्रकल्केन हंसशेखरनृपस्य दृषत्काष्ठताम्रादिसप्तमण्डपाः १२ योजनमानाः कौतुकेन हैमाः कृताः । स १२ वर्षसेवया तुष्टस्तस्य रसविद्यां ददौ । तेन मयूराद्रौ ३२ वारान् रसः साधितः परं स्त्यानः कथमपि न स्यात् मण्ड एव स्यात् । स खिन्नः पादलिप्तं पप्रच्छ । रसस्त्यानतोपायं तैरूचे । कान्त्यां धनेश्वराऽर्यश्रीपार्थाऽग्रे महीअडदेशे पुरग्रामसमीपे सेड़ीनदीतीरे रसस्ते सेत्स्यति । स खगामी हृत्वा ततस्तबिम्बं आनीय तत्र मुमोच । पूर्वदेशशमकूआणापत्न्या सौभाग्यमञ्जर्या पद्मिन्या हेमरससिद्धौ औषधपीषणं कृतम् । क्षारान्नमद्येति वचसा रससिद्धिस्तया ज्ञाता । स्वपुत्रवीरघोषवीरकान्तयोापिता। ताभ्यां रसलोभात्स मारितोऽहितले कुश प्रहारेण । तेनापि पतता पादप्रहारेण त्रयो रसकुम्भा भग्नाः । तेन रसेन भूमध्यगतेन आरासनग्रामे अंबाविखानी निर्गतेन सप्तधातुखातयः कृताः । अष्टमी आरासनीयदृषत्खानिः । रसस्योद्गारवातेन किञ्चिद्वेधात् ब्रह्माणग्रामे किञ्चित्कर्बुरिता दृषत्खानिर्जज्ञे । हेमरसस्तम्भनात् श्रीपार्श्वस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org