Book Title: Stambhana Parshwanath Dwantrishad Prabandhoddhara
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
71
साधयँस्तेन रणे जितः । सा तत्समक्षमुदूढा । तौ दम्पती गतौ स्वगृहम् । अन्यदा नृपश्चन्द्रशालातः खेचर्याऽपहृत्य वैताढ्ये नागपुरे नीतस्तत्र विद्युन्मालिना विद्याः प्रदाय जामाता कृतः । नैमित्तिकवचसाऽन्यदा स दक्षिणश्रेण्यां गगनपुरेशगगनचूडं जेतुं प्रहितस्तं जित्वा तत्पुत्री परिणीय करमोचने प्रज्ञप्ती प्राप्य पश्चादागतः । ततः स्त्रीद्वययुतो विमानेन स्वं पुरं गतः । अन्यदा तस्य राज्ये जलशोषोऽग्निनाशश्चाऽभूतां, कल्पान्त इव संवृतः । ततः कुलदेवीगिरा कुरुक्षेत्रे चित्रकूटाद्रौ मरकतशृङ्गे कमलासरसि नागराजकुण्डे स्थितं परमेश्वराख्यं बिम्बमानीय तत्स्नात्राम्बुना सर्व स्वस्थीचक्रे । इत्थं वर्षलक्षं स जिनमचियित्वा मृतः स्वः ॥ २४ उत्पातशान्तिः ।।
___ हस्तिनागपुरे जितशत्रुनृपः । जयकान्तादेवी । पुरमुख्यः कार्तिकश्रेष्ठी । तन्मित्रं गङ्गदत्तः । श्रीसुव्रतजिनश्राद्धौ तौ वैराग्यधसै । अन्यदा सुव्रतेशपाā गङ्गदत्तेन दीक्षाऽऽत्ता । कार्तिकस्तु तेन, “श्रेष्ठिन् ! बंधे गिहवासे मुक्खे परियाए" इत्यादिना बहुबोधितोऽपि चारित्रमोहनीयोदयात् न सार्धं दीक्षां ललौ । अन्यदा कोष्टिकभिक्षुर्गेरिकाख्यस्तत्रागतो राज्ञा पारणाय निमन्त्रितः । श्रेष्ठिना नृपवचसा परिवेषितमित्यादि प्रसिद्धम् । तद्वैराग्यात् १००८ श्रेष्ठियुतः स दीक्षां लात्वा १२ वर्षे द्वादशाङ्गपाठी मृत्वा सौधर्मेन्द्रः । तपस्वी तद्वाहनमैरावणः । स मन्युतप्तः शक्रेण प्राग्भवकथनात्सुस्थीकृतः । शक्रेण प्राग्भवे सुखगर्भाख्यदेवालये संस्थाप्य परमेष्ठिनामेदं बिम्बं त्रिकालमर्चता शतं श्राद्धप्रतिमाः कृताः आसन् । तत्स्मृत्वा तदा नागपुरस्थं तत् परमेष्ठिबिम्बमुत्पाट्य स्वसभायां मुक्त्वा देवैः संभूयाऽकारणवत्सल इति कृतनामानं तं ११ लक्षवर्षाणि शक्रः पूजयामास ॥ २५ इन्द्रः ॥ ।
श्रीरामे दण्डकारण्ये गते सीताया जिनपूजाहर्षपूत्र्यै मातलिसारथिसनाथे रथे प्रस्थापितस्तत्र तया ७ मासान् ९ दिनांश्चाचितः । अन्यदाऽपहरणे भाविनि सीतायाऽचिन्ति । पुष्पाद्यभावादत्र स्वामिनः पूजने प्रत्युताऽऽशातना । ततः स्वामी स्वर्गे प्रेषितः । ततः सीताऽपहारोऽजनि इत्यादि रामचरितं प्रसिद्धम् ।। २६ श्रीरामः ॥
. जरासंधभिया यादवा द्वारिकायां गत्वाऽस्थुः । अन्यदाऽरण्येजरासन्धेन कृष्णसैन्यं जरयोपद्रुतम् । श्रीनेमिर्हरिणा विज्ञप्तः प्राह । ३ उपवासैः शक्रमाराध्य तद्विम्बं याचस्व । तत्स्नात्राम्बुना सर्वो नीरुग् भावी । हरिणा तथाकृते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15