Book Title: Smruti Sandarbh Part 06
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 15
________________ मार्कण्डेयस्मृतिः तारतम्यं तस्य चैषां तद्भिन्नानां च सन्ततम् । अस्त्येव परमं तेन गुरुर्नोऽयं पितामहः॥ सर्वशस्तु स एवैको भगवान भूतभावनः । अज्ञेयोऽत्यन्तनिपुणैः सर्वोपायक्रियादिभिः सर्वेश्वरः सर्वकर्ता सर्वभर्ता सनातनः । सर्वान्तकृत्सर्वान्तर्याम्ययं भूताश्रयः समः ।। लोकशक्त्याश्रयः श्रीमान् पुराणो ब्रह्मनामकः । अजेयः शाश्वतो नित्यः ध्रुवश्वाञ्चल्यवर्जितः।। भावशून्यो भावभर्ता कर्तु चाकतु मेव च । अन्यथाख्यातुमीशानः सच्चिदानन्दलक्षणः॥ करणं कारणं गुह्य वेदवेद्यमगोचरः। सर्ववेदान्तसंवेद्यो जगज्जन्मादिकारणम् ।। तस्य प्रसादात्सर्वेषां मुक्तिदोदिता शिवा । सायुज्यनामिका दिव्या भवेदिति मनुश्रुतेः प्रसादस्तस्य कथितः वेदोक्त नित्यकर्मभिः। एकविंशतिसंख्याकैः अतिशीघ्रफलप्रदैः॥ अतिशीघ्रफलं चापि चित्तशुद्धिरितिस्मृतम् । तेन ज्ञानं भवेदिव्यं ब्राह्म श्रवणतो महत्।। मननादि क्रमेणैव तस्माद्वेदोदितानि वै । कर्मणां मुक्तिसाधनताविचारः कर्माणि ब्राह्मणः कुर्यादयं मार्गो महान् शिवः । मुक्तिर्नान्यास्ति सरणिः ज्ञानमेवैकमुच्यते ।। तस्मै सर्वाणि कर्माणि तपः कृच्छादिकान्यपि । कुर्वन्ति सुमहात्मानः तानि स्युश्च विलम्बतः ।। एतत्कार्यकराणीति प्राहुब्रह्मविदोऽखिलाः । न कर्मणा न प्रजया त्यागेनानशनेन च ॥ तीर्थयात्रादिकेनापि मुक्तिः सायुज्यनामिका। भवेदेवेति किं तानि साधकान्यतिदूरतः॥ न साक्षादिति वेदानां हृदयं तन्निबोधत । केचित्तु प्रवदन्त्यत्र वेदोक्तान्यखिलान्यपि। नित्यान्येवेति तत्प्रीतिकृतानि यदि चेतसा। नैमित्तिकानि काम्यानि सर्वत्रापि मनः परम् ।। प्रधानमिति विशेयं तस्मादेव विचक्षणः । कृष्णार्पणधिया नित्यं यशेशं सन्ततं विभुम्।।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 426