Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 7
________________ उपोद्धातः। राविर्भूतश्वयथुविकारः पञ्चत्वमाप्स्यति' इति निमित्तविदा निवेदितां विभवसंभारेण तां ग्रहगतिं निराचिकीर्षुणा माघपित्रा संवत्सरशतप्रमाणे मनुजायुषि षटुत्रिंशत्सहस्राणि दिनानि भविष्यन्तीति विमृश्य नाणकपरिपूर्णांस्तावत्संख्याकान्हारकान्कारितनव्यकोषेषु निवेश्य तदधिकां परां भूतिं शतशः समर्प्य प्रदत्तमाघनान्ने सुताय कुलोचितां शिक्षा वितीर्य कृतकृत्यमानिना तेन विपेदे । तदनन्तरमुत्तराशापतिरिव प्राज्यसाम्राज्यो विद्वजनेभ्यः श्रियं तदिच्छया यच्छन्नमानेर्दानैरर्थिसार्थ कृतार्थयस्तैर्भोगविधिभिः स्वममानुषावतारमिव दर्शयन् विरचितशिशुपालवधाभिधानमहाकाव्यचमत्कृतविद्वज्जनः स प्रान्ते पुण्यक्षयात्क्षीणवित्तो विपत्तिपात खविषये स्थातुमप्रभूष्णुः सकलत्रो मालवमण्डले गत्वा धारायां कृतावासः पुस्तकग्रहणकार्पणपूर्वकं श्रीभोजात्कियदपि द्रव्यमानेयमिति तत्र पत्नी प्रस्थाप्य यावत्तदाशया माघपण्डितश्चिरं तस्थौ तावत्तथावस्थां श्रीभोजस्तत्पत्नीं विलोक्य ससंभ्रमः शलाकान्यासेन तत्पुस्तकमुन्मुद्य काव्यमद्राक्षीत् । 'कुमुदवनमपश्रि-(भोजप्रबन्धस्थ एव श्लोकः ) । अथ काव्यार्थमवगम्य का कथा गन्धस्य, केवलमस्येव काव्यस्य विश्वंभरा मूल्यमल्पम् । समयोचितस्यानुच्छिष्टस्य हीशब्दस्य पारितोषिके क्षितिपतिलक्षद्रव्यं वितीर्य तां विससर्ज । सापि ततः संचरन्ती विदितमाघपण्डितपत्नी कैश्चिद्भिरर्थिभिर्याच्यमाना तत्पारितोषिकं तेभ्यः समस्तमपि वितीर्य यथावस्थिता गृहमुपेयुषी । तद्वृत्तान्तं विज्ञापनापूर्व किंचिच्चरणस्फुरितशोफाय पत्ये निवेदयामास । अथ त्वमेव मे शरीरिणी कीर्तिरिति श्लाघमानस्तदा स्वगृहमागतं कमपि भिझुं वीक्ष्य भवने तदुचितं किमपि देयमपश्यन् संजातनिर्वेद इदमवादीत्-'अर्था न सन्ति न च-॥१॥ दारियानल-॥२॥ व्रजत व्रजत-॥ ३ ॥ न भिक्षा दुर्भिक्षे-॥४॥ (श्लोकचतुष्टयं भोजप्रबन्धवत् )- क्षुत्क्षामः पथिको मदीयभवनं पृच्छन्कुतोऽप्यागतस्तत्किं गेहिनि किंचिदस्ति यदयं भुङ्क्ते बुभुक्षातुरः । वाचास्तीत्यभिधाय नास्ति च पुनः प्रोक्तं विनवाक्षरैः स्थूलस्थूलविलोललोचनजलैर्बाष्पाम्भसा बिन्दुभिः ॥ ५ ॥ इति तद्वाक्यान्त एव स माघपण्डितः पञ्चत्वमवाप । प्रातस्तं वृत्तान्तमगवम्य श्रीभोजेन श्रीमालेषु तज्ज्ञातिषु धनवत्सु सत्सु तस्मिन्पुरुषरत्ने विनष्टे क्षुधाबाधिते सति भिल्लमाल इति तज्ज्ञाते म निर्ममे ॥" अयं प्रबन्धो वर्तते ॥ श्रीप्रभाचन्द्रेण १३३४ मिते विक्रमाब्दे प्रणीते प्रद्युम्नसूरिसंशोधिते प्रभावकचरिते चतुर्दशे शृङ्गे "श्रीसिद्धर्षिः श्रियो देयाद्वियाध्यामयधामभूः (१) । निर्ग्रन्थग्रन्थतामापुर्यग्रन्थाः सांप्रतं भुवि ॥ १ ॥ १सुरतगनरात शेठ भगवानदास केवलदासजीनाम्ना मन्मित्रेण प्रहिते १८२७ मिते विक्रमाब्दे लिखिते शिशुपालवधपुस्तके समाप्ती 'इति श्रीभिन्नमालववास्तव्यदत्तकसूनोमहावैयाकरणस्य माघस्य कृतौ शिशुपालवधे-' इत्याद्यस्ति. स च भिन्नमालवनामा ग्रामोऽधुना 'मिनमाला' इति नाम्ना ख्यातो गुजरात-मारवाडदेशयोः सीमायां वर्तत इति केचिद्वदन्ति.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 554