Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
प्रथमः सर्गः।
भावे क्तः । 'प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । केचित्कमणि क्तान्तं कृत्वा ईक्षितं मुनिं ददशैंति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनिधाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाव्यतिरेकः । तदुक्तं काव्यप्रकाशे-'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः' इति । 'धाम रश्मा गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः, दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन 'द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुताशनः' इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्यचरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात् ॥
अथ भगवान्निरणैषीदित्याहचयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥३॥
चय इति ॥ विभुर्वस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं त्विषां चय इत्यवधारितं तेजःपुञ्जमात्रत्वेन विनिश्चितम् । ततः प्रत्यासने विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अतएव शरीरी चेतन इत्यवधारितम् । ततो विभक्ता विविच्य गृहीता अवयवा मुखादयो यस्य तं तथोक्तम् । अतएव पुमानित्यवधारितम् । अमुमागच्छन्तं व्यक्तिविशेषं नारदं वास्तवाभिप्रायेणेति पुंलिङ्गनिर्वाहः । क्रमात्पूर्वोक्तसामान्यविशेषज्ञानक्रमेण । लोकदृष्ट्येदमुतम् । हरिस्तु सर्व वेदैवेति तत्त्वम् । नारद इत्यबोधि । नारदं बुद्धवानित्यर्थः । नारदस्य कर्मत्वेऽपि निपातशब्देनाभिहितत्वान्न द्वितीया । तिङामुपसंख्यानस्योपलक्षणत्वात् । यथाह वामनः-'निपातेनाभिहिते कर्मणि न कर्मविभकि। परिगणनस्य प्रायिकत्वात्' इति बुध्यतेः कर्तरि लुङ् । 'दीपजन-' इत्यादिना चिण् । 'चिणो लुक्' इति तस्य लुक् । अत्र विभाविताकृति विभक्तावयवमित्यादिना आकृतिविभावनावयवविभावनयोः पदार्थयोर्विशेषणवृत्त्या शरीरित्वपुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥
अथ सप्तभिर्मुनिं विशिनष्टिनवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् । क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥४॥
नवानित्यादिभिः ॥ कीदृशममुम् । नवान्सद्यःसंभृतसलिलान् । अतिनीलानिति यावत् । बृहतो विपुलान्पयोधरान्मेघानधोऽधः । मेघानां समीपाधःप्रदेशे स्थितमिति शेषः । 'उपर्यध्यधसः सामीप्ये' इति द्विर्भावः । तद्योगे द्वितीया । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इत्यादिवचनात् । समूढः पुजीकृतः ।
१ अयं कुत्रचिन्नोपलभ्यते.
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 554