Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 10
________________ शिशुपालवधे 'त्रासाकुलः परिपतन्-' (५।२६) ( काव्यमालायां मुद्रितस्य ११४ पृष्ठे) इत्यादिपद्यम् ,'रम्या इति प्राप्तवती:-' (३५३) (काव्यमालायां मुद्रितस्य ११५पृष्ठे )इत्यादिपा च शिशुपालवधादुदाहृतवान् । अथ च शिशुपालवधे (२।११२) माघो न्यासग्रन्थं स्मरतीति न्यासप्रणेतुर्जिनेन्द्रबुद्धपादाचायोदधस्तनः। गुर्जरदेशोद्भवोऽयं कविरिति पूर्वोद्धृतप्रबन्धेभ्यो लोकप्रथातश्च प्रतीयते । ग्रन्थान्त च खवंशवर्णने माघकविना खपितामहस्य सुप्रभदेवस्याश्रयभूतः कश्चन तत्कालीनो महीपतिरपि वर्णितो यः प्रभावकचरितेऽपि स्मृतः तत्र शिशुपालवधपुस्तकेषु धर्मनाभ, धर्मनाथ, धर्मलाभ, चर्मलाथ, धर्मलाथ, धर्मदेव, वर्मलाख्य, वर्मलात, वर्मनाभ, निर्मालान्त, इति तन्नानि नानाविधः पाठो दृश्यते । अतस्तद्विषये जोषमेव स्थातुमीहे । शिशुपालवधादन्यः कोऽपि ग्रन्थोऽस्य कवेर्नोपलब्धः । किंतु सुभाषितावलौ 'शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना माश्रौषं जगति श्रुतस्य विफलक्लेशस्य नामाप्यहम् । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु मे सर्वदा येनकेन विना गुणास्तृणबुसप्रायाः समस्ता अमी ॥' 'नारीनितम्बफलके प्रतिबध्यमाना हंसीव हेमरशना मधुरं ररास । तन्मोचनार्थमिव नूपुरराजहंसाश्चक्रन्दुरातमुखरं चरणावलग्नाः ॥' एतच्छोकद्वयं शिशुपालवधेऽनुपलभ्यमानं वल्लभदेवेन. औचित्यविचारच र्चायां च 'बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥' एतत्पद्यं तादृशमेव क्षेमेन्द्रेण माघनाम्ना समुद्धृतमस्तीत्यस्ति कश्चिदन्योऽपि ग्रन्थो माघकृत इत्यनुमीयते । काव्यस्यास्याद्यावधि ज्ञाताष्टीकाः,-(१) वल्लभदेवकृता संदेहविषौषधाख्या,(२) रङ्गराजकृता, (३) एकनाथकृता, (४) चरित्रवर्धनकृता, (५) मल्लिनाथकृता सर्वकषा, (६ ) भरतमल्लिककृता सुबोधा, (७) दिनकरमिश्रकृता सुबोधिनी, (८) गोपालकृता हसन्ती, एता अष्टौ सन्ति । एतासु मल्लिनाथकृता सर्वकषैव सर्वाङ्गपरिपूर्णा कश्मीरदेशमपहायान्यत्र सर्वत्र लब्धप्रचारा विद्वद्भिरादृता च वर्तते। मल्लिनाथपण्डितश्चान्ध्रदेशे ख्रिस्ताब्दीयचतुर्दशशतक आसीदिति नवीनविदुषां निर्णयः। सर्वकषासमेतमेतत्काव्यं कलिकाताकाश्यादिषु बहुशो मुद्रितमपि सर्वाङ्गपूर्णतां दर्शनीयतां च न गतमिति पुनर्मुद्रणे मुख्यो हेतुः । तत्र १७६९ मिते शकाब्दे कलिकातानगरे श्रीतारानाथतर्कवाचस्पतिभट्टाचार्यादिविद्वद्वरैः संशोध्य मुद्रितं पुस्तकमादाय पुनरपि प्राचीनेन हस्तलिखितेन सर्वकषापुस्तकेन संवाद्य तदाधारेणैतन्मुद्रणमकारि । अत्र च विंशसर्गान्ते सर्वेषु मुद्रितपुस्तकेषु प्रायो हस्तलिखितेष्वपि दुर्लभा श्लोकद्वयस्य सर्वंकषा, तदने कविवंशवर्णनात्मकश्लोकपञ्चकस्य, पञ्चदशे सर्गे 'प्रक्षिप्ता एते' इति मन्यमानेन मल्लिनाथेनाव्याख्यातानां चतुस्त्रिंशच्छोकानां च वल्लभदेवकृता टीका भूयसा यत्नेन संपाद्य यथास्थानं निवेशिता। मन्मित्रराजगुरुपर्वणीकरोपाह्वनारायणभट्टानां संग्रहादुपलब्धात् १२९९ मिते शकाब्दे लिखितान्मूलशिशुपालवधपुस्तकादुपयुक्तानि १ अयं श्लोको भर्तृहरेनीतिशतकेऽप्युपलभ्यते. २ काश्मीरकैस्तु बल्लभदेवकृतटीकैवो. पयुज्यते.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 554