Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 5
________________ उपोद्घातः । इह खलु निखिलेऽपि भारते वर्षे महाकविपदवीमा रुरुक्षुभिरछात्रैः सत्स्वपि हरविजयादिषु परःशतेषु काव्यरत्नेषु लघुत्रयीति नाम्ना प्रसिद्ध कालिदासप्रणीतं काव्यत्रय, बृहत्रयीति नाम्ना प्रथितं किरातार्जुनीयं शिशुपालवधं नैषधीयचरितं चेति काव्यत्रयमेवाहरहः क्रमेणाभ्यस्यते सर्वत्र । तत्र बृहत्रय्यां निखिलमहाकाव्य लक्षणाक्रान्ततयातिप्रसन्नगम्भीरतयात्युपयुक्त व्याकरणप्रयोग प्राचुर्येणातिव्युत्पादकतया च कविमूधन्य - माघप्रणीतं शिशुपालवधकाव्यमेव नायकायतें । - तस्य च प्रणेता दत्तकसूनुर्माघकविः कस्मिन्समये कतमं जनपदं जन्मना भूषयांचकारेति विचारः प्रस्तूयते - तत्र तावद्बलालपण्डितसंकलिते भोजप्रबन्धे" ततोऽन्यदा राजनि सिंहासनासीने श्रीभोजे द्वाःस्थः प्रणम्य राजानं प्राह - 'राजन्, गुर्जर देशादागत्य माघनामा पण्डितवरो दुर्भिक्षेणातिविडम्बितो देवस्य नगराद्वहिस्तिष्ठति । तेन च दारिद्र्य विडम्बितेन पण्डितेन स्वपत्नी प्रेषिता । सा च भवनद्वारि वर्ततें' । राजा - ' प्रवेशय' । ततो माघपण्डितस्य पत्नी प्रविश्य राज्ञे पत्रं प्रयच्छति । राजा तदादाय वाचयति — ' कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलुकः प्रीतिमांश्चक्रवाकः । उदयमहिम रश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥' ( शिशुपालवधे ११।६४ ) राजा तदद्भुतगुणं प्रभातवर्णनमाकर्ण्य लक्षत्रयं दत्त्वा माघपत्नीं प्रति प्राह - ' मातः, इदं मया भोजनाय दीयते । प्रातरहं माघपण्डितं नमस्कर्तुमागमिष्यामि' । ततः सा माघपत्नी तदादाय स्वस्थानमा गच्छन्ती याचकत्रातात्स्वभर्तुः शारदचन्द्रकिरण गौरान्गुणाञ्श्रुत्वा तेभ्यो याचकेभ्यो निखिलमपि धारेन्द्रदत्तं वित्तं दत्तवती । दत्त्वा च माघपण्डितं प्राह - 'नाथ, राज्ञा भोंजेनाहं बहु• मानिता, धनं चातिभूरि दत्तम् । मया च मार्गे आयान्त्या याचकमुखेभ्यो लोकोत्तरांस्तांस्तांस्तव गुणानाकर्ण्य तन्निखिलमपि वित्तं याचकेभ्यो दत्तम्' । माघः प्राह'देवि, साधु कृतम् । परमन्ये याचका आयान्ति तेभ्यः किं दातव्यम् । ततो माघपण्डितं वस्त्रावशेषं विदित्वा कोऽप्यर्थी प्राह - 'आश्वास्य पर्वतकुलं तपनोष्मतप्तमुद्दामदावविधुराणि च काननानि । नानानदीन दशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमा श्रीः ॥' ततो माघः पत्नीं प्राह - 'अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे । यात्रा च लाघवकरी स्ववधे च पा प्राणाः स्वयं व्रत किं नु विलम्बितेन ॥ दारिद्यानलसंतापः शान्तः संतोषवारिणा । याचकाशा विघातान्तर्दाहः केनोपशाम्यति ॥ देवि, किं बहुना । चित्ते कष्टं किमपि नास्ति । परं तथाप्युच्यते - 'न भिक्षा दुर्भिक्षे पतति दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विपरिवृढान्कारयति कः । अदस्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवन विधिः ॥' ततस्तथाविधामवस्थां माघस्य विलोक्य सर्वे १ सुभाषितावलौ भट्टप्रद्युम्ननाम्ना समुद्धृतोऽयं श्लोकः.

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 554