Book Title: Sirisiriwal Kaha Part 01 Author(s): Ratnashekharsuri, Bhanuchandravijay Publisher: Yashendu Prakashan View full book textPage 7
________________ प्रस्तावना महामहिम्नोऽप्रतिचक्रस्य श्रीसिद्धचक्रस्य त्रिधाऽऽराधनतः सम्पादिताऽऽश्चर्यकरसुखसौभाग्यसम्पतेरत्य- है। न्तदुस्तरकिलासरोगसमुद्रसमुत्तीर्णस्य श्रीश्रीपालमहाराजस्य, पूर्वोपार्जितशुभाऽशुभकर्मत एव सुखदुःखाऽनुभविनः प्राणिनोऽन्ये तु निमित्तमात्रमिति पित्रा पृष्ठाया जिनेन्द्रागममर्मज्ञायाः पर्षदि पर्जन्यवद्गभीरया गिरा स्पष्टसम्भाषित्र्या मदनसुन्दर्याश्च चरित्रमिदं श्रीश्रीपालचरित्रम् / ____ अनयोः परमपवित्रनामधेययो दम्पत्योश्चरित्रस्य श्रवणेन चैत्राश्चिन्योरष्टाहिकायां श्रीनवपदीनामाराधनं 8 श्रीश्रीपालवत् त्रिधा कुर्वन्तो भव्या उत्तरोत्तरमपवर्गसुखभाजो भवेयुरिति श्रीमद्रत्नशेखरसूरयः प्राकृतभाषायां वैक्रमीयचतुर्दशशतकोत्तराऽष्टाविंशतितमे वर्षे चरित्रमिदं रचितवन्तः / / श्रीरत्नशेखरखरीणां गुरवः श्रीहेमतिलकसूरयः, तेषाञ्च श्रीवज्रसेनसूरय आसन् / अमीषाश्च सम्मान H"पातिशाह अल्लाउद्दीन" इत्यनेन "फरमान" दानपूर्वकं कृतमिति, " जैनग्रन्थावल्या " मयं प्रसङ्गो "वेबर" इत्यस्योक्तितया सगृहीतः / 7 .Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 250