Book Title: Siddhartha Author(s): Kalyankirtivijay Publisher: Bhadrankaroday Shikshan Trust View full book textPage 5
________________ तस्य साहित्ये प्राधान्येनाऽयं ध्वनिरभिव्यज्यते - - धर्मो न कदाऽप्यन्येभ्यः शिक्षितुं शक्यः । सोऽन्तःकरणादेव समुदेति स्वानुभूत्यैव च साकारो भवति ।। - उपदेशाज्ज्ञानं प्राप्येत कदाचित्, न पुनः प्रज्ञा । - सत्यं न कस्यचिदनुयायित्वेन प्राप्येत, तत् तु स्वयमेव शोधयितव्यम् । शब्दाः पूर्णसत्यं व्यक्तीकर्तुमसमर्था एव । पूर्णसत्यं त्वनुभूतेविषयः । - जगत्यस्मिन् प्रेम एव श्रेष्ठः पदार्थः । - प्रत्येकं मनुष्यस्यैकमेव कर्तव्यं - स्वीयो मार्गः स्वयमेव शोधयितव्यः । तेन १९२३तमे वर्षे लिखितोऽयं सिद्धार्थ इत्याख्य उपन्यासः । अत्र ब्राह्मणपरम्परा, श्रमणपरम्परा, बौद्धपरम्परा, भारतीया जीवनशैली, विशुद्धमध्यात्मतत्त्वं स्वात्मनिष्ठा - इत्यादीनि तत्त्वानि सुतरां द्योतन्ते । अस्य चोपन्यासस्याऽनुवादोऽपि विश्वस्य बहीषु भाषासु जातोऽस्ति । १९५३तमे वर्षेऽस्याऽऽङ्ग्लभाषायामनुवादो हिल्डारोसनेर-इत्यनेन कृतः । गूर्जरभाषायामपि कथाया एतस्याश्चत्वारोऽनुवादाः सञ्जाताः । ऐदम्प्राथम्येन यदा मयाऽस्य गूर्जरानुवादः पठितस्तदारभ्यैव मे मनस्यस्य संस्कृतभावानुवादं कर्तुमिच्छा जागृता । अतो मयाऽऽङ्ग्लानुवादोऽपि पठितस्तस्यैव च प्रामाणिकत्वात् तमालम्ब्यैव संस्कृतभाषया भावानुवादः कृतोऽस्ति । अस्य च साद्यन्तं संशोधनं पठनं क्षतिसम्मार्जनं च मम पूज्यगुरुभगवद्भिराचार्यश्रीविजयशीलचन्द्रसूरिभिः, पूज्योपाध्यायश्रीभुवनचन्द्रजीमहाराजैः, पूज्यमुनिश्रीकीर्तिचन्द्रजीमहाराजैश्च कृतमस्तीत्ययं मे महतो सौभाग्यस्य विषयः ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 175